________________
AARCRACK
संयमानुष्ठानेन गच्छता, पूर्वस्य तु परिमाणं वर्षाणां सप्ततिः कोटिलक्षाः षट्पञ्चाशच्च कोटिसहस्राः, तथा प्रभूतानि वर्षाणि रीयमाणानां, तत्र नाभेयादारभ्य शीतलं दशमतीर्थकरं यावत्पूर्वसङ्ख्यासद्भावात् पूर्वाणीत्युक्तं, ततः आरतः श्रेयांसादारभ्य वर्षसङ्ख्याप्रवृत्तेर्वषाणीत्युक्तमिति, तथा 'द्रव्याणां' भव्यानां मुक्तिगमनयोग्यानां 'पश्य' अवधारय यत्तुणस्पर्शादिकं पूर्वमभिहितं तदधिसोढव्यमिति सम्यक्करणेन स्पर्शातिसहनं कृतमेतदवगच्छेति ॥ एतच्चाधिसहमानानां यत्स्यात्तदाह
आगयपन्नाणाणं किसा बाहवो भवंति पयणुए य मंससोणिए विस्सेणिं कटु परिन्नाय,
एस तिपणे मुत्ते विरए वियाहिए तिबेमि (सू० १८६) ___ आगतं प्रज्ञानं पदार्थाविर्भावकं येषां ते तथा तेषामागतप्रज्ञानानां तपसा परीषहातिसहनेन च कृशा 'बाहवः' भुजा भवन्ति, यदिवा सत्यपि महोपसर्गपरीषहादावागतप्रज्ञानत्वाद् 'बाधाः' पीडाः कृशा भवन्ति, कर्मक्षपणायोत्थितस्य शरीरमात्रपीडाकारिणः परीषहोपसर्गान् सहायानिति मन्यमानस्य न मनःपीडोत्पद्यत इति, तदुक्तम्-"णिम्माणेइ परो च्चिय अप्पाण उ ण वेयणं सरीराणं । अप्पाणो च्चिअ हिअयस्स ण उण दुक्खं परो देइ ॥ १॥” इत्यादि, शरीरस्य तु पीडा भवत्येवेति दर्शयितुमाह-प्रतनुके च मांसं च शोणितं च मांसशोणिते द्वे अपि, तस्य हि रूक्षाहार
१ विदधाति परो नैवात्मनो वेदना शरीराणाम् । आत्मन एव हृदयस्य न पुनर्दुःख परो ददाति ॥१॥
dain Education International
For Personal & Private Use Only
www.iainelibrary.org