SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ।। २४५ ।। ज्ञात्वेत्यर्थः, कथमिति चेत् तदुच्यते - 'सर्वत' इति द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतः आहारोपकरणादौ | क्षेत्रतः सर्वत्र ग्रामादौ कालतोऽहनि रात्रौ वा दुर्भिक्षादौ वा सर्वात्मनेति भावतः कृत्रिम कल्काद्यभावेन, तथा 'सम्यक्त्व' - मिति प्रशस्तं शोभनं एकं सङ्गतं वा तत्त्वं सम्यक्त्वं, यदुक्तम् – “प्रशस्तः शोभनश्चैव एकः सङ्गत एव च । इत्येतैरुपसृष्टस्तु, भावः सम्यक्त्वमुच्यते ॥ १ ॥” तदेवम्भूतं सम्यक्त्वमेव समत्वमेव वा 'समभिजानीयात्' सम्यगाभिमुख्येन जानीयात् परिच्छिन्द्यात्, तथाहि - अचेलोऽप्येक चेलादिकं नावमन्यते, यत उक्तम् – “जोऽवि दुवत्थतिवत्थो एगेण अचेलगो व संथरइ । ण हु ते ही ंति परं सव्वेऽवि य ते जिणाणाए ॥ १ ॥” तथा - " जे खलु विसरिसकप्पा संघयण| धियादिकारणं पप्प । णऽवमन्नइ ण य हीणं अप्पाणं मन्नई तेहिं ॥ २ ॥ सव्वेऽवि जिणाणाए जहाविहिं कम्मखवणअट्ठाए । विहरंति उज्जया खलु सम्मं अभिजाणई एवं ॥ ३ ॥” ति, यदिवा तदेव लाघवमभिसमेत्य सर्वतो द्रव्यादिना सर्वात्मना नामादिना सम्यक्त्वमेव सम्यगभिजानीयात्, तीर्थकरगणधरोपदेशात् सम्यक्कुर्यादिति तात्पर्यार्थः । एतच्च नाशक्यानुष्ठानं ज्वरहरतक्षक चूडालङ्काररत्नोपदेशवद्भवतः केवलमुपन्यस्यते, अपि त्वन्यैर्बहुभिश्चिरकालमा सेवितमित्येतदर्शयितुमाह - 'एवम्' इत्यचेलतया पर्युषितानां तृणादिस्पर्शानधिसहमानानां तेषां महावीराणां सकललोकचमत्कृति-कारिणां 'चिररात्रं' प्रभूतकालं यावज्जीवमित्यर्थः, तदेव विशेषतो दर्शयति- 'पूर्वाणि' प्रभूतानि वर्षाणि 'रीयमाणानां' १ योऽपि द्विवस्त्रनिवस्त्र एकेन अचेलको वा निर्वहति । नैव हीलयति परं सर्वेऽपि च ते जिनाज्ञायाम् ॥ १ ॥ ये खलु विसदृशकल्पाः संहननधृत्यादिकारणं प्राप्य । नावमन्यते न च हीनमात्मानं मन्यते तेभ्यः ॥ २ ॥ सर्वेऽपि जिनाज्ञायां यथाविधि कर्मक्षपणार्थे । विहरन्त्युद्यताः खलु सम्यगभिजानात्येवम् ॥ ३ ॥ Jain Education International For Personal & Private Use Only धुता० ६ उद्देशकः३ ॥ २४५ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy