________________
*****
शय्याशायिनं तृणानां स्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शाः-दुःखविशेषास्तृणस्पर्शास्ते कदाचित् स्पृशन्ति, तांश्च सम्यग अदीनमनस्कोऽतिसहत इति सम्बन्धः, तथा शीतस्पर्शाः स्पृशन्ति-उपतापयन्ति, तेजः-उष्णस्तत्स्पर्शाः स्पृशन्ति, तथा दंशमशकस्पर्शाः स्पृशन्ति, एतेषां तु परीषहाणामेकतरेऽविरुद्धा दंशमशकतृणस्पर्शादयः प्रादुर्भवेयुः, शीतोष्णादिपरीषहाणां वा परस्परविरुद्धानामन्यतरे प्रादुष्ष्युः, प्रत्येकं बहुवचननिर्देशश्च तीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूपं-बीभत्सं मनोऽनाहादि विविधं वा मन्दादिभेदाद्रूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?-'स्पर्शाः' दुःखविशेषाः, तदापादकास्तृणादिस्पर्शा वा, तान् सम्यक्करणेनापध्यानरहितोऽधिसहते, कोऽसौ?-'अचेलः' अपगतचेलो|ऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघो वो लाघवं, द्रव्यतो भावतश्च, द्रव्यतो झुपकरणलाघवं भावतः कर्मलाघवं 'आगमयन्' अवगमयन् बुध्यमान इतियावद् अधिसहते परीषहोपसर्गानिति, नागार्जुनीयास्तु पठन्ति-"एवं खलु से उवगरणलाघवियं तवं कम्मक्खयकारणं करेइ” 'एवम्' उक्तक्रमेण भावलाघवार्थमुपकरणलाघवं तपश्च करोति इति भावार्थः । किं च-'से' तस्योपकरणलाघवेन कर्मलाघवमागमयतः कर्मलाघवेन चोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग् आभिमुख्येन सोढं भवति । एतच्च न मयोच्यते इत्येतद्दर्शयितुमाह-'यथा' येन प्रकारेण 'इद'मिति यदुक्तं वक्ष्यमाणं चैतद्भगवता-वीरवर्द्धमानस्वामिना प्रकर्षणादौ वा वेदितं प्रवेदितमिति, यदि नाम भगवता प्रवेदितं ततः किमित्याह-तद्-उपकरणलाघवमाहारलाघवं वा 'अभिसमेत्य' ज्ञात्वा एवकारोऽवधारणे, तदेव लाघवं
*********
Jain Education International
For Personal & Private Use Only
www.
library.org