SearchBrowseAboutContactDonate
Page Preview
Page 494
Loading...
Download File
Download File
Page Text
________________ धुता०६ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥२४४॥ चेल-वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे 'पर्युषितो' व्यवस्थित इति, तस्य भिक्षोः 'नैतद्भवति' नैतत्कल्पते यथा परिजीर्ण मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणं मे स्यादिति वस्त्रं | विनेत्यतोऽहं कश्चन श्रावकादिकं प्रत्यग्रं वस्त्रं याचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिंच याचिष्ये, अवाप्ताभ्यां च सूचिसूत्राभ्यां जीर्णवस्त्ररन्धं सन्धास्यामि-पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सपरिधास्यामि तथा प्रावरिष्यामीत्याद्यार्तध्यानोपहता असत्यपि जीर्णादिवस्त्रसद्भावे यद्भविष्यत्ताऽध्यवसायिनो धम्मैकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयं, तद्यथा-'जे अचेले' इत्यादि, नास्य चेलं-वस्त्रमस्तोत्यचेल:| अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद्भवति, यथा-परिजीण मे वस्त्रं छिद्रं पाटितं चेत्येवमादि वस्त्रगतमपध्यानं न भवति, धर्मिणोऽभावाद्धाभावः, सति तु धम्मिणि धर्मान्वेषणं न्याय्यमिति सत्पथः, तथेदमपि तस्य न भवत्येव यथा-अपरं वस्त्रमहं याचिष्ये इत्यादि पूर्ववन्नेयं, योऽपि छिद्रपाणित्वात् पात्रनिर्योगसमन्वितः कल्पत्रयान्यतरयुक्तोऽसावपि परिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति । तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह-तस्य ह्यचेलतया परिवसतो जीर्णवस्त्रादिकृतमपध्यानं न भवति, अथवैतत्स्यात्-तत्राचेलत्वे पराक्रममाणं पुनस्तं साधुमचेलं कचिद्रामादौ त्वक्राणाभावात् तृण ॥२४४॥ Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy