SearchBrowseAboutContactDonate
Page Preview
Page 485
Loading...
Download File
Download File
Page Text
________________ कहेतौ विघटितमोहकपाटः सन् रतिं कुर्यादिति ? । उपसंहारमाह-एतत्' पूर्वोक्तं ज्ञानं सदा आत्मनि 'सम्यगनुवासयेः' व्यवस्थापयेः, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । धूताध्ययनस्य प्रथमोद्देशकः समाप्तः ॥ उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके निजकविधूनना प्रति-II पादिता, सा चैवं फलवति स्याद्यदि कर्मविधूननं स्याद् , अतः कर्मविधूननार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्थास्योद्देशकस्यादि सूत्रम् आउरं लोगमायाए चइत्ता पुव्वसंजोगं हिच्चा उवसमं वसित्ता बंभचेरंसि वसु वा अ___णुवसु वा जाणित्तु धम्मं अहा तहा अहेगे तमचाइ कुसीला (सू० १८१) 'लोक' मातापितृपुत्रकलत्रादिकं तमातुरं स्नेहानुषणतया वियोगात् कार्यावसादेन वा यदिवा जन्तुलोक कामरागातुरम् 'आदाय' ज्ञानेन 'गृहीत्वा' परिच्छिद्य तथा त्यक्त्वा च 'पूर्वसंयोग' मातापित्रादिसम्बन्ध, तथा हित्वा'गत्वोपशमं उषित्वापि ब्रह्मचर्ये, किम्भूतः सन्निति दर्शयति-वसु द्रव्यं तद्भूतः कषायकालिकादिमलापगमाद्वीतराग इत्यर्थः, तद्विपर्ययेणानुवसु सराग इत्यर्थः, यदिवा वसुः-साधुः अनुवसुः-श्रावकः, तदुक्तम्-"वीतरागो वसुज्ञेयो, जिनो वा संयतोऽथवा । सरागो ह्यऽनुवसुः प्रोक्तः, स्थविरः श्रावकोऽपि वा ॥१॥” तथा ज्ञात्वा 'धर्मं श्रुतचारित्राख्यं Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy