SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २४० ॥ यथातथावस्थितं धर्म्म प्रतिपद्याप्यथैके मोहोदयात्तथाविधभवितव्यतानियोगेन 'तं' धर्म्म प्रति पालयितुं न शक्नुवन्ति, किंभूताः ? - कुत्सितं शीलं येषां ते कुशीला इति, यत एव धर्मपालनाशक्ता अत एव कुशीलाः ॥ एवम्भूताश्च सन्तः किं कुर्युरित्याह वत्थं पडिग्गहं कंबलं पायपुंछणं विउसिज्जा, अणुपुव्वेण अणहियासेमाणा परीसहे दुरहियास, कामे ममायमाणस्स इयाणिं वा मुहुत्तेण वा अपरिमाणाए भेए, एवं से अंतराएहिं कामेहिं आकेवलिएहिं अवइन्ना चेए ( सू० १८२ ) केचिद्भवशतकोटिदुरापमवाप्य मानुषं जन्म समासाद्यालब्धपूर्वी संसारार्णवोत्तरणप्रत्यलां बोधिद्रोणीमङ्गीकृत्य मोक्षतरुबीजं सर्वविरतिलक्षणं चरणं पुनर्दुर्निवारतया मन्मथस्य पारिप्लवतया मनसो लोलुपतयेन्द्रियग्रामस्याने कभवाभ्यासापादितविषयमधुरतया प्रबलमोहनीयोदयादशुभवेदनीयोदयासन्नप्रादुर्भावादयशः कीर्त्त्यत्कटतया अवगणय्याऽऽयतिमविचार्य कार्याकार्य उररीकृत्य महाव्यसनसागरं साम्प्रतेक्षितयाऽधः कृतकुलक्रमाचारास्तत्त्यजेयुः, तत्त्यागश्च धर्मोपकरण| परित्यागाद्भवतीत्यतस्तद्दर्शयति - वस्त्रमित्यनेन क्षौमिकः कल्पो गृहीतः, तथा 'पतग्रहः' पात्रं 'कम्बलं' और्णिकं कल्पं पात्रनिर्योगं वा 'पादपुञ्छन कं' रजोहरणं एतानि निरपेक्षतया व्युत्सृज्य कश्चिदेश विरतिमभ्युपगच्छति, कश्चिद्दर्शनमेवालम्बते, कश्चित्ततोऽपि भ्रश्यति । कथं पुनर्दुर्लभं चारित्रमवाप्य पुनस्तत्त्यजेदित्याह - परीषहान् दुरधिसहनीयान् 'अनुक्र Jain Education International For Personal & Private Use Only धुता० ६ उद्देशकार ॥ २४६॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy