SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ धुता०६ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका ॥२३९॥ णपरिणामा अनुपूर्वेण शिक्षकगीतार्थक्षपकपरिहारविशुद्धिकैकाकिविहारिजिनकल्पिकावसाना मुनयोऽभूवन्निति ॥ अभिसम्बुद्धं च प्रविव्रजिषुमुपलभ्य यन्निजाः कुर्युस्तदर्शयितुमाह तं परिक्कमंतं परिदेवमाणा मा चयाहि इय ते वयंति-छंदोवणीया अज्झोववन्ना अकंदकारी जणगा रुयंति, अतारिसे मुणी (ण य) ओहं तरए जणगा जेण विप्पजढा, सरणं तत्थ नो समेड. कहं न नाम से तत्थ रमह?, एयं नाणं सया समणवासिज्जासि त्तिबेमि (सू० १८०) धूताध्ययनोद्देशकः ६-१॥ | 'तम्' अवगततत्त्वं गृहवासपराङ्मुखं महापुरुषसेवितं पन्थानं पराक्रममाणमुपलभ्य मातापितृपुत्रकलत्रादयः परिदेवमाना माऽस्मान् परित्यज 'इति' एतत् ते कृपामापादयन्तो वदन्ति, किं चापरं वदन्तीत्याह-छन्देनोपनीताः छन्दोपनीताः-तवाभिप्रायानुवर्तिनस्त्वयि चाभ्युपपन्नाः, तदेवम्भूतानस्मान्माऽवमंस्था इत्येवमाक्रन्दकारिणो 'जनका' मातापित्रादयो जना वा रुदन्ति । एवं च वदेयुरित्याह-न तादृशो मुनिर्भवति, न चौघं संसारं तरति, येन पाखण्डविप्रलब्धेन 'जनका' मातापित्रादयः 'अपोढा' त्यक्ता इति । स चावगतसंसारस्वभावो यत्करोति तदाह-न ह्यसावनुरक्तमपि बन्धुवर्ग 'तत्र' तस्मिन्नवसरे शरणं समेति, न तदभ्युपगमं करोतीत्यर्थः । किमित्यसौ शरणं नैतीत्याहकथं नु नामासौ 'तत्र' तस्मिन् गृहवासे सर्वनिकारास्पदे नरकप्रतिनिधौ शुभद्वारपरिधे रमते ?, कथं गृहवासे द्वन्द्वै ॥२३९॥ dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy