________________
हिं अभिसेrण अभिसंभूया अभिसंजाया अभिनिव्बुडा अभिसंबुड्डा अभिसंबुद्धा अभिनिता अणुपुव्वेण महामुनी ( सू० १७९ )
'भोः' इति शिष्यामन्त्रणं, यदहमुत्तरत्रावेदयिष्यामि भवतस्तद् ' आजानीहि ' - अवधारय, 'शुश्रूषस्व' श्रवणेच्छां वि धेहि 'भोः' इति पुनरप्यामन्त्रणमर्थगरीयस्त्वख्यापनाय नात्र भवता प्रमादो विधेयो, धूतवादं कथयिष्याम्यहं, (धूतम् - अष्टप्रकारकर्म्मधूननं ज्ञातिपरित्यागो वा तस्य वादो धूतवादः तं प्रवेदयिष्यामि) अवहितेन च भवता भाव्यमिति । नागार्जुनीयास्तु पठन्ति – “धुतोवायं पवेयंति" अष्टप्रकार कर्म्मधूननोपायं निजधूननोपायं वा प्रवेदयन्ति तीर्थकरादयः । कोऽसावुपाय इत्यत आह-' इह' अस्मिन् संसारे 'खलुः' वाक्यालङ्कारे आत्मनो भाव आत्मता - जीवास्तिता स्वकृतकर्म्मपरिणतिर्वा तयाऽभिसम्भूताः - सञ्जाताः, न पुनः पृथिव्यादिभूतानां कायाकारपरिणामतया ईश्वरप्रजापतिनियोगेन वेति तेषु तेषूच्चावचेषु कुलेषु यथास्वं कम्र्मोदयापादितेषु 'अभिषेकेण शुक्रशोणितनिषेकादिक्रमेणेति, तत्रायं क्रमः -- “ सप्ताहं कललं विन्द्यात्ततः सप्ताहमर्बुदम् । अर्बुदाज्जायते पेशी, पेशीतोऽपि घनं भवेत् ॥ १ ॥” इति तत्र यावत्कललं तावदभिसम्भूताः, पेशीं यावदभिसञ्जाताः, ततः साङ्गोपाङ्गस्नायु शिरोरोमादिक्रमाभिनिवर्त्तनादभिनिर्वृत्ताः, ततः प्रसूताः सन्तोऽभिसंवृद्धाः, धर्म्मश्रवणयोग्यावस्थायां वर्त्तमाना धर्म्मकथादिकं निमित्तमासाद्योपलब्धपुण्यपापतयाऽभिसम्बुद्धाः, ततः सदसद्विवेकं जानानाः अभिनिष्क्रान्ताः, ततोऽधीताचारादिशास्त्रास्तदर्थ भावनोपबृंहितचर
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org