SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २३८ ॥ दुःखं प्राप्तव्यमनेनेति बहुदुःख इत्येनं कामानुषङ्गं प्राणिनां क्लेशं वा 'बालो' रागद्वेषाकुलितः प्रकर्षेण करोति प्रकरोति, तज्जनितकर्म्मविपाकाच्च अनेकशो वधं गच्छति, यदिवा रोगेषु सत्सु इत्येतद्वक्ष्यमाणं बालोऽज्ञः प्रकरोति तदाह| एतान् गण्डकुष्ठराजयक्ष्मादीन् रोगान् बहुनूत्पन्नानिति ज्ञात्वा तद्रोगवेदनया आतुराः सन्तः चिकित्सायै प्राणिनः परितापयेयुः, 'लावकादिपिशिताशिनः किल क्षयव्याध्युपशमः स्यादित्यादिवाक्याकर्णनाज्जीविताशया गरीयस्यपि प्राण्युपमर्दे प्रवर्त्तेरन्, नैतदवधारयेयुः यथा - स्वकृतावन्ध्यकर्म्मविपाकोदयादेतत्, तदुपशमाच्चोपशमः, प्राण्युपमर्दचिकित्सया च किल्बिषानुषङ्ग एवेति एतदेवाह पश्यैतद्विमलविवेकावलोकनेन यथा 'ना' न समर्थाः चिकित्साविधयः कम्र्मोदयोपशमं विधातुं, यद्येवं ततः किं कर्त्तव्यमिति दर्शयति- 'अलं' पर्याप्तं 'तव' सदसद्विवेकिनः 'एभि:' पापोपादानभूतैश्चिकित्सा विधिभिरिति । किं च - 'एतत्' प्राण्युपमर्दादिकं 'पश्य' अवधारय हे 'मुने' ! जगत्रयस्वभाववेदिन् महद् - बृहद्भयहेतुत्वाद्भयं यद्येवं ततः किं कुर्यादिति दर्शयति- 'नातिपातयेत् न हन्यात् कञ्चन प्राणिनं, यत एक| स्मिन्नपि प्राणिनि - हन्यमानेऽष्टप्रकारमपि कर्म वध्यते तच्चानुत्तारसंसारगमनायेत्यतो महाभयमिति, यदिवा एए | रोगे बहू णच्चेत्यादिको ग्रन्थः कामानधिकृत्य नेयः, एतान् रोगरूपान् कामान् बहून् ज्ञात्वा आसेवनाप्रज्ञयेति आतुराःकामेच्छान्धा अपरान् प्राणिनः परितापयेयुः इत्यादिना प्रक्रमेणेति ॥ तदेवं रोगकामातुरतया सावद्यानुष्ठानप्रवृत्तानामु|पदेशदान पुरस्सरं महाभयं प्रदर्श्य तद्विपर्यस्तानां सस्वरूपां गुणवत्तां दिदर्शयिषुः प्रस्तावमारचयन्नाह - आयाण भो सुस्सूस ! भो धूयवायं पवेयइस्सामि इह खलु अत्तत्ताए तेहिं तेहिं कु Jain Education International For Personal & Private Use Only धुता० ६ उद्देशकः १ ॥ २३८ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy