________________
जन्तवः पर्याप्तकापर्याप्तकभेदेन व्यवस्थिताः, तथा उदके चरन्तीत्युदकचराः-पूतरकच्छेदनकलोडणकत्रसा मत्स्यकच्छपादयः, तथा स्थलजा अपि केचन जलाश्रिता महोरगादयः पक्षिणश्च केचन तद्गतवृत्तयो द्रष्टव्याः, अपरे तु आकाशगामिनः पक्षिणः, इत्येवं सर्वेऽपि 'प्राणाः' प्राणिनोऽपरान् प्राणिनः आहाराद्यर्थ मत्सरादिना वा 'क्लेशयन्ति' उपतापयन्ति । यद्येवं ततः किमित्यत आह-'पश्य' अवधारय 'लोके' चतुर्दशरज्वात्मके, कर्मविपाकात्सकाशात् 'महद्भयं' नानागतिदुःखक्लेशविपाकात्मकमिति ॥ किमिति कर्मविपाकान्महद्भयमित्याह
बहुदुक्खा हु जन्तवो, सत्ता कामेसु माणवा, अबलेण वहं गच्छन्ति सरीरेणं पभंगुरेण अट्टे से बहुदुक्खे इइ बाले पकुव्वइ एए रोगा बहू नच्चा आउरा परियावए
नालं पास, अलं तवेएहि, एयं पास मुणी! महब्भयं नाइवाइज कंचणं (सू० १७८) बहूनि दुःखानि कर्मविपाकापादितानि येषां जन्तूनां ते तथा, हुर्यस्मादेवं तस्मात्तत्राप्रमादवता भाव्यं । किमित्येवं भूयो भूयोऽपदिश्यत इत्यत आह-यस्मादनादिभवाभ्यासेनागणितोत्तरपरिणामाः 'सक्ताः' गृद्धाः 'कामेषु' इच्छामदनरूपेषु 'मानवाः' पुरुषा इत्यतो न पुनरुक्तदोषानुषङ्गः। कामासक्ताश्च यदवामुवन्ति तदाह-बलरहितेन निःसारेण तुषमुष्टिकल्पेनौदारिकेण शरीरेण 'प्रभङ्गुरेण' स्वत एव भङ्गशीलेन तत्सुखाधानाय कर्मोपचित्याऽनेकशो वधं गच्छन्ति, कः पुनरसौ विपाककटुकेषु कामेषु यो रतिं विदध्यादित्याह-मोहोदयादातः अगणितकार्याकार्योववेकः सोऽसुमान्बहु
Jan Education Internal
For Personal & Private Use Only
www.jainelibrary.org