________________
धुता०६ उद्देशका
श्रीआचा- भवति विरहजं वृद्धभावोऽप्यसारः, संसारे रे मनुष्या! वदत. यदि सुखं स्वल्पमप्यस्ति किञ्चित् ॥ १॥ बाल्याप्रभृति राङ्गवृत्तिः च रोगैर्दष्टोऽभिभवश्च यावदिह मृत्युः । शोकवियोगायोगैर्दुर्गतदोषैश्च नैकविधैः॥२॥ क्षुत्तृहिमोष्णानिलशीतदाहदा(शी०) ४ रियशोकप्रियविप्रयोगैः । दौर्भाग्यमानभिजात्यदास्यवैरूप्यरोगादिभिरस्वतन्त्रः ॥३॥” इत्यादि । देवगतावपि
चत्वारो योनिलक्षाः षड्विंशतिः कुलकोटीलक्षाः तेषामपीpविषादमत्सरच्यवनभयशल्यवितुद्यमानमनसां दुःखानुषङ्ग ॥२३७॥
एव, सुखाभासाभिमानस्तु केवलमिति, उक्तं च-“देवेषु च्यवनवियोगदुःखितेषु, क्रोधेामदमदनातितापितेषु । आर्या! नस्तदिह विचार्य संगिरन्तु, यत्सौख्यं किमपि निवेदनीयमस्ति ॥२॥” इत्यादि । तदेवं चतुर्गतिपतिताः संसारिणो नानारूपं कर्मविपाकमनुभवन्तीत्येतदेव सूत्रेण दर्शयितुमाह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनः 'अन्धा' चक्षुरिन्द्रियविकला भावान्धा अपि सद्विवेकविकलाः 'तमसि' अन्धकारे नरकगत्यादौ भावान्धकारेऽपि च मिथ्यात्वाविरतिप्रमादकषायादिके कर्मविपाकापादिते व्यवस्थिता व्याख्याताः । किं च-तामेवावस्थां कुष्ठाद्यापादितामेकेन्द्रियापर्याप्तकादिका वा सकृदनुभूय कर्मोदयात्तामेव असकृद्-अनेकशोऽतिगत्योच्चावचान-तीव्रमन्दान् स्पर्शान-दुःखविशेषान् 'प्रतिसंवेदयति' अनुभवति । एतच्च तीर्थकृद्भिरावेदितमित्याह-'बुद्धैः' तीर्थकृद्भिः 'एतद्' अनन्तरोक्तं प्रकर्षणादौ वा वेदितं प्रवेदितम् । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-'सन्ति' विद्यन्ते 'प्राणाः' प्राणिनो 'वासकाः' 'वासू शब्दकुत्सायां' वासन्तीति वासकाः-भाषालब्धिसम्पन्ना द्वीन्द्रियादयः, तथा रसमनुगच्छन्तीति रसगाः-कटुतिक्तकषायादिरसवेदिनः संज्ञिन इत्यर्थः, इत्येवम्भूतः कर्मविपाकः संसारिणां सम्प्रेक्ष्य इति सम्बन्धः, तथा-'उदके' उदकरूपा एवैकेन्द्रिया
॥२३७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org