SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) अध्ययन उद्देशकः१ ॥२१॥ मावास्यादिके विशिष्टे पर्वदिवसे न वर्त्तते, सावद्यत्वाच्छेदनादिक्रियायाः, श्रुत्वा चैतदसावचिन्तयत्-यदि सर्वदाऽनाकुट्टिः स्याच्छोभनं भवेद् , एवमध्यवसायिनस्तस्यामावास्यायां तपोवनासन्नपथेन गच्छतां साधूनां दर्शनमभूत्, ते च तेनाभिहिताः-किमद्य भवतामनाकुट्टिन सञ्जाता? येनाटवीं प्रस्थिताः, तैरप्यभिहितम्-'यथाऽस्माकं यावजीवमनाकुट्टिरित्यभिधायातिक्रान्ताः साध्वः, तस्य च तदाकयेहापोहविमर्शेन जातिमरणमुत्पन्न-यथाऽहं जन्मान्तरे प्रव्रज्यां कृत्वा देवलोकसुखमनुभूयेहागत इति, एवं तेन विशिष्टदिगागमनं स्वमत्या-जातिस्मरणरूपया विज्ञातं, प्रत्येकबुद्धश्च जातः, एवमन्येऽपि वल्कलचीरिश्रेयांसप्रभृतयोऽत्र योज्या इति । परव्याकरणे त्विदमुदाहरणम्-गौतमस्वामिना भगवान्वर्द्धमानस्वामी पृष्टो-भगवन् ! किमिति मे केवलज्ञानं नोत्पद्यते ?, भगवता व्याकृतं-भो गौतम ! भवतोऽतीव ममोपरि स्नेहोऽस्ति, तद्वशात् , तेनोक्तम्-'भगवन्नेवमेवं, किंनिमित्तः पुनरसौ मम भगवदुपरि स्नेहः?, ततो भगवता तस्य बहुषु भवान्तरेषु पूर्वसम्बन्धः समावेदितः 'चिरसंसिट्ठोऽसि मे परिचिओऽसि मे गोयमे'त्येवमादि, तच्च तीर्थकृद्ध्याकरणमाकर्ण्य गौतमस्वामिनो विशिष्टदिगागमनादिविज्ञानमभूदिति । अन्यश्रवणे त्विदमुदाहरणम्-मल्लिस्वामिना षण्णां राजपुत्राणामुद्धाहार्थमागतानामवधिज्ञानेन तत्प्रतिबोधनार्थ यथा जन्मान्तरे सहितैरेव प्रव्रज्या कृता, यथा च तत्फलं देवलोके जयन्ताभिधानविमानेऽनुभूतं तथाऽऽख्यातं, तच्चाकर्ण्य ते लघुकर्मत्वात्प्रतिबुद्धा विशिष्टदिगागमनविज्ञानं च Iल ॥२१॥ १०मेतत् प्र. २ चिरसंसृष्टोऽसि मया गौतम ! चिरपरिचितोऽसि मम गौतम ! Jain Education international For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy