________________
सञ्जातं, उक्तं च-'किं थे तैयं पम्हुई जं च तया भो! जयंतपवरंमि । वुच्छा समयनिबद्धं देवा! तं संभरह जातिं ॥२॥ इति गाथात्रयतात्पर्य्यार्थः ॥४॥ __ साम्प्रतं प्रकृतमनुम्रियते-यो हि सोऽहमित्यनेनाहङ्कारज्ञानेनात्मोल्लेखेन पूर्वादेर्दिश आगतमात्मानमविच्छिन्नसंततिपतितं द्रव्यार्थतया नित्यं पर्यायार्थतया त्वनित्यं जानाति स परमार्थतः आत्मवादीति सूत्रकृद्दर्शयति___ से आयावादी लोयावादी कम्मावादी किरियावादी (सू० ५)
'स' इति यो भ्रान्तः पूर्व नारकतिर्यग्नरामराद्यासु भावदिक्षु पूर्वाद्यासु च प्रज्ञापकदिक्षु अक्षणिकामूर्त्तादिलक्षणोपेतमात्मानमैवैति, स इत्थंभूतः 'आत्मवादी ति आत्मानं वदितुं शीलमस्येति, यः पुनरेवंभूतमात्मानं नाभ्युपगच्छति सोऽनात्मवादी नास्तिक इत्यर्थः । योऽपि सर्वव्यापिनं नित्यं क्षणिकं वाऽऽत्मानमभ्युपैति सोऽप्यनात्मवाद्येव, यतः सर्वव्यापिनो निष्क्रियत्वाद्भवान्तरसंक्रान्तिन स्यात्, सर्वथा नित्यत्वेऽपि 'अप्रच्युतानुत्पन्नस्थिरैकस्वभावं नित्यमितिकृत्वा मरणाभावेन भवान्तरसंक्रान्तिरेव न स्यात् , सर्वथा क्षणिकत्वेऽपि निर्मूलविनाशात्सोऽहमित्यनेन पूर्वोत्तरानुसन्धानं न स्यात् । य एव चात्मवादी स एव परमार्थतो लोकवादी, यतो लोकयतीति लोकः-प्राणिगणस्तं वदितुं शीलमस्येति, अनेन चात्माद्वैतवादिनिरासेनात्मबहुत्वमुक्तं, यदिवा 'लोकापातीति लोकः-चतुर्दशरज्वात्मकः प्राणिगणो वा, तत्रापतितुं
१च. प्र. २ किमथ तद्विस्मृतं यच तदा भो जयन्तप्रवरे । उषिताः निबद्धसमयं देवास्तां स्मरत जातिम् ॥ १॥ ३ नं वेत्ति.
स्तिक इत्यर्थः । योऽपि स्यात्, सर्वथा नित्यत्वेऽपि
नाशात्सोऽहमित्यनेन पूर्वोत्तरामस्पति, अ
Jain Education International
For Personal & Private Use Only
www.janelibrary.org