________________
*
*
BAXARALASHISARAS
नेन चोत्तरेषां षण्णामप्युद्देशकानां यथाक्रममधिकारार्थमाहेति, अत्र च 'सह सम्मइए'त्ति सूत्रे यत्पदं, तत्र जाणणत्ति ज्ञानमुपात्तं भवति, 'मनि ज्ञाने' मननं मतिरितिकृत्वा, तच्च किंभूतमिति दर्शयति–'अवधिमनःपर्यायकेवलजातिस्मरणरूप'मिति, तत्रावधिज्ञानी संख्येयानसंख्येयान्वा भवान् जानाति, एवं मनःपर्यायज्ञान्यपि, केवली तु नियमतोऽनन्तान् , जातिस्मरणस्तु नियमतः संख्येयानिति, शेषं सष्टम् । अत्र च सहसम्मत्यादिपरिज्ञाने सुखप्रतिपत्त्यर्थं त्रयो दृष्टान्ताः प्रदर्शयन्ते, तद्यथा-वसन्तपुरे नगरे जितशत्रू राजा, धारणी नाम महादेवी, तयोर्द्धर्मरुच्यभिधानः सुतः, स च राजाऽन्यदा तापसत्वेन प्रवजितुमिच्छुर्द्धर्मरुचिं राज्ये स्थापयितुमुद्यतः, तेन च जननी पृष्टा-किमिति तातो राज्यश्रियं त्यजति ?, तयोक्तम्-किमनया चपलया नारकादिसकलदुःखहेतुभूतया स्वर्गापवर्गमार्गार्गलया अवश्यमपायिन्या परमार्थत इहलोकेऽप्यभिमानमात्रफलयेत्यतो विहायैनां सकलसुखसाधनं धर्म कर्तुमुद्यतः, धर्मरुचिस्तदाकोक्तवान् यद्येवं किमहं तातस्यानिष्टो ? येनैवंभूतां सकलदोषाश्रयिणी मयि नियोजयति, सकलकल्याणहेतोर्द्धर्मात्प्रच्यावयतीत्यभिधाय पित्राऽनुज्ञातस्तेन सह तापसाश्रममगात् , तत्र च सकलास्तापसक्रिया यथोक्ताः पालयन्नास्ते, अन्यदाऽमावास्यायाः पूर्वाहे केनचित्तापसेनोद्घुष्टम्-यथा भो भोः तापसाः! श्वोऽनाकुट्टिर्भविता, अतोऽद्यैव समित्कुसुमकुशकन्दफलमूलाद्याहरणं कुरुत, एतच्चाकर्ण्य धर्मरुचिना जनकः पृष्टः-तात ! केयमनाकुट्टिरिति, तेनोक्तम्-पुत्र! कन्दैफलादीनामच्छेदनं, तझ्य
*
*
*
*
१ या चेत्यतो प्र. २ एकेन प्र. ३ लतादीनामच्छे० प्र.
**
dain Education International
For Personal & Private Use Only
www.jainelibrary.org