SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ मालावानित्यादि, अथवेत्येतत्प्रतिरोगमभिसम्बध्यते, अथवा राजांसी अपस्मारीत्यादि, अथवा तथा-'कुष्ठी' कुष्ठमष्टादशभेदं तदस्यास्तीति कुष्ठी, तत्र सप्त महाकुष्ठानि, तद्यथा-अरुणोदुम्बरनिश्यजिह्वकपालकाकनादपौण्डरीकदद्रुकुष्ठानीति, महत्त्वं चैषां सर्वधात्वनुप्रवेशादसाध्यत्वाच्चेति, एकादश क्षुद्रकुष्ठानि, तद्यथा-स्थूलारुष्क १ महाकुष्ठै २ ककुष्ठ ३चर्मदल ४ परिसर्प ५ विसर्प ६ सिध्म ७ विचर्चिका ८ किटिभ ९पामा १० शतारुक ११ संज्ञानीति, सर्वाण्यप्यष्टादश, सामान्यतः कुष्ठं सर्व सन्निपातजमपि वातादिदोषोत्कटतया तु भेदभाग्भवतीति। तथा-राजांसो-राजयक्ष्मा सोऽस्यास्तीति राजांसी, क्षयीत्यर्थः, स च क्षयः सन्निपातजश्चतुर्व्यः कारणेभ्यो भवति इति, उक्तं च-"त्रिदोषो जायते यक्ष्मा, गदो हेतुचतुष्टयात् । वेगरोधात् क्षयाच्चैव, साहसाद्विषमाशनात् ॥ १॥" तथा-अपस्मारो वातपित्तश्लेष्मसन्निपातजत्वाच्चतुर्दा, तद्वानपगतसदसद्विवेकः भ्रममूर्छादिकामवस्थामनुभवति प्राणीति, उक्तं च-"भ्रमावेशः ससंरम्भो, द्वेषोद्रेको हतस्मृतिः। अपस्मार इति ज्ञेयो, गदो घोरश्चतुर्विधः॥१॥" तथा 'काणिय'ति अक्षिरोगः, स च द्विधा-गर्भगतस्योत्पद्यते जातस्य च, तत्र गर्भस्थस्य दृष्टिभागमप्रतिपन्नं तेजो जात्यन्धं करोति,तदेवैकाक्षिगतं काणं विधत्ते, तदेव रक्तानुगतं रक्ताक्षं पित्तानुगतं पिङ्गाक्षं श्लेष्मानुगतं शुक्लाक्षं वातानुगतं विकृताक्षं, जातस्य च वातादिजनितोऽभिष्यन्दो भवति, तस्माच्च सर्वे रोगाः प्रादुष्ष्यन्तीति, उक्तं च-“वातात्पित्तात्कफाद्रक्तादभिष्यन्दश्चतुर्विधः । प्रायेण जायते घोरः, सर्वनेत्रामयाकरः॥१॥" इति, तथा-'झिमिय'ति जाड्यता सर्वशरीरावयवानामवशित्वमिति, तथा 'कुणिय'ति गर्भाधानदोषाद् | १ अपगतः स्मारः स्मरणं यस्मात् सः अपस्मारः तस्मिन्सति तद्रोगिणः सर्वविषया स्मृतिः नश्यति. गात क्षयाञ्चवन्नपातजश्चतुय काया त भेदभाग्भया १० शतारुक CRICASSOCALCUSTORE Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy