________________
श्रीआचाराङ्गवृत्तिः (शी० )
॥ २३४ ॥
संसारहूदान्तर्वर्त्तिनस्तदवाप्तिः ?, तस्मादवाप्य भवशतदुरापं कर्म्मविवरभूतं सम्यक्त्वं क्षणमप्येकं तत्र न प्रमादवता भा - व्यमिति तात्पर्यार्थः । पुनरपि संसारानुषङ्गिणां दृष्टान्तान्तरमाह - 'भञ्जगा' वृक्षास्त इव शीतोष्णप्रकम्पनच्छेदन शाखाकर्षणक्षोभामोटनभञ्जनरूपानुपद्रवान् सहमाना अपि 'सन्निवेशं' स्थानं कर्म्मपरतया न त्यजन्ति, एवमित्यादिना दान्तिकमर्थ दर्शयति - 'एव' मिति वृक्षोपमया 'अपिः' सम्भावने, 'एके' कर्म्मगुरवोऽनेकरूपेषु कुलेषूच्चावचेषु जाता धर्म्मचरणयोग्या अपि रूपेषु चक्षुरिन्द्रियानुकूलेषूपलक्षणार्थत्वाच्छन्दादिषु च विषयेषु 'सक्ताः' अध्युपपन्नाः शारीरमानसदुःखदुःखिता राजोपद्रवोपद्रुताः अग्निदाहदग्धसर्वस्वा नानानिमित्ताहिताधयोऽपि न सकलदुःखावासं गृहवासं कर्म्मनिघ्नास्त्यक्तुमलम्, अपि तु तत्स्था एव तेषु तेषु व्यसनोपनिपातेषु सत्सु 'करुणं स्तनन्ति' दीनमाक्रोशन्ति, तद्यथा - हा तात ! हा मातः हा दैव ! न युज्यते भवत एवंविधेऽवसरे एवम्भूतं व्यसनमापादयितुं, तदुक्तम् — “ किमिदमचिन्तितमसदृशमनिष्टमतिकष्टमनुपमं दुःखम् । सहसैवोपनतं मे नैरयिकस्येव सत्त्वस्य ? ॥ १ ॥" इत्यादि, यदिवा रूपादिविषयासक्ता उपचितक|र्माणो नरकादिवेदनामनुभवन्तः करुणं स्तनन्तीति, न च करुणं स्तनन्तोऽप्येतस्मात् दुःखान्मुच्यन्ते इत्येतद्दर्शयितु| माह-दुःखस्य निदानम् - उपादानं कर्म्म ततस्ते विलपन्तोऽपि न लभन्ते 'मोक्षं' दुःखापगमं मोक्षकारणं वा संयमानुष्ठानमिति । दुःखविमोक्षाभावे च यथा नानाव्याध्युपसृष्टाः संसारोदरे प्राणिनो विवर्त्तन्ते तथा दर्शयितुमाह - 'अर्थ' इति वाक्योपन्यासार्थे पश्य त्वं तेषूच्चावचेषु कुलेषु, आत्मत्वाय - आत्मीयकम्र्मानुभवाय जाताः, तदुदयाच्चेमां अवस्थामनुभवन्तीत्याह - षोडशरोगवक्तव्यानुगतं श्लोकत्रयं, वातपित्तश्लेष्मसन्निपातजं चतुर्द्धा गण्डं तदस्यास्तीति गण्डी - गण्ड
Jain Education International
For Personal & Private Use Only
धुता० ६ उद्देशकः १
॥ २३४ ॥
www.jainelibrary.org