________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २३५ ॥
हस्वैकपादो न्यूनैकपाणिर्वा कुणिः, तथा 'खुज्जियंति कुब्जं पृष्ठादावस्यास्तीति कुब्जी, मातापितृशोणितशुक्रदोषेण गर्भ| स्थदोषोद्भवाः कुब्जवामनकादयो दोषा भवन्तीति, उक्तं च- "गर्भे वातप्रकोपेन, दौहृदे वाऽपमानिते । भवेत् कुब्जः कुणिः पङ्गुर्मूको मन्मन एव वा ॥ १ ॥” मूको मन्मन एवेत्येतदेकान्तरिते मुखदोषे लगनीयमिति । तथा — 'उदरिं चत्ति चः समुच्चये वातपित्तादिसमुत्थमष्टधोदरं तदस्यास्तीत्युदरी, तत्र जलोदर्यसाध्यः शेषास्त्वचिरोत्थिताः साध्या इति, ते चामी भेदाः – “पृथक् समस्तैरपि चानिलाद्यैः, प्लीहोदरं बद्धगुदं तथैव । आगन्तुकं सप्तममष्टमं तु, जलोदरं | चेति भवन्ति तानि ॥ १ ॥” इति, तथा 'पास मूयं च'त्ति पश्य- अवधारय मूकं मन्मनभाषिणं वा, गर्भदोषादेव जातं तदुत्तरकालं च पञ्चषष्टिर्मुखे रोगाः सप्तस्वायतनेषु जायन्ते, तत्रायतनानि ओष्ठौ दन्तमूलानि दन्ता जिह्वा तालु कण्ठः सर्वाणि चेति, तत्राष्टात्रोष्ठयोः पञ्चदश दन्तमूलेष्वष्टौ दन्तेषु पञ्च जिह्वायां नव तालुनि सप्तदश कण्ठे त्रयः सर्वेष्वायतनेष्विति, 'सूणियं च' त्ति शूनत्वं श्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघातजोऽयं षोढेति, उक्तं च - "शोफः स्यात् षड्विधो घोरो, दोषैरुत्सेधलक्षणः । व्यस्तैः समस्तैश्चापीह, तथा रक्ताभिघातजः ॥ १ ॥” इति, तथा 'गिलासणिं' ति भस्मको व्याधिः, स च वातपित्तोत्कटतया श्लेष्मन्यूनतयोपजायत इति, तथा 'वेवई'ति वातसमुत्थः शरीरावयवानां कम्प इति उक्तं च - " प्रकामं वेपते यस्तु, कम्पमानश्च गच्छति । कलापख तं विद्यान्मुक्तसन्धिनिबन्धनम् ॥ १ ॥” इति, तथा 'पीढसप्पिं च'त्ति जन्तुर्गर्भदोषात् पीढसपित्वेनोत्पद्यते, जातो वा कर्म्मदोषाद्भवति, स किल पाणिगृहीतकाष्ठः प्रसतीति, तथा 'सिलिवयं' ति श्लीपदं - पादादौ काठिन्यं, तद्यथा - प्रकुपितवातपित्तश्लेष्माणोऽधः प्रपन्ना
Jain Education International
For Personal & Private Use Only
धुता० ६ उद्देशकः १
॥ २३५ ॥
www.jainelibrary.org