________________
अथ धुताख्यं षष्ठमध्ययनम्
***RARASUSASTICARA
उक्तं पञ्चममध्ययनं, साम्प्रतं षष्ठमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने लोकसारभूतः संयमो मोक्षश्च प्रतिपादितः, स च निःसङ्गताव्यतिरेकेण कर्मधुननमन्तरेण च न भवतीत्यतस्तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन में सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारी द्वेधा-अध्ययनार्थाधिकार उद्देशाधिकारश्च, तत्राध्ययनार्थाधिकारः प्रागभाणि, उद्देशार्थाधिकारं तु नियुक्तिकारो बिभणिषुराहपठमे नियगविहणणा कम्माणं वितियए तइयगंमि । उवगरणसरीराणं चउत्थए गारवतिगस्स ॥ २५०॥
प्रथमोद्देशके निजकाः-स्वजनास्तेषां विधूननेत्ययमर्थाधिकारः, द्वितीये कर्मणां, तृतीये उपकरणशरीराणां, चतुर्थे गौरवत्रिकस्य, विधूननेति सर्वत्र सम्बन्धनीयम् , उपसर्गाः सन्माननानि च, यथा साधुभिर्विधूतानि तथा पञ्चमोद्देशके || प्रतिपाद्यत इत्यर्थाधिकारं परिसमापय्य निक्षेपमाह-स च त्रिधा, तत्रौघनिष्पन्नेऽध्ययनं, नामनिष्पन्ने तु धूतं, तच्च चतुर्दा, तत्रापि नामस्थापने सुगमत्वादनादृत्य द्रव्यभावधूतप्रतिपादनाय गाथाशकलम्
उवसग्गा सम्माणयविहआणि पञ्चमंमि उद्देसे । व्वधुयं वत्थाई भावधुयं कम्म अट्ठविहं ॥ २५१॥ द्रव्यधूतं द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीर
Jain Education Internal
For Personal & Private Use Only
www.jainelibrary.org