________________
लोक० ५ उद्देशका६
श्रीआचा-18द्यते यया सोपमा-तुल्यता सा मुक्तात्मनस्तज्ज्ञानसुखयोर्वा न विद्यते, लोकातिगत्वात्तेषा, कुत एतदिति चेदाह-तेषां राङ्गवृत्तिः मुक्तात्मनां या सत्ता सा अरूपिणी, अरूपित्वं च दीर्घादिप्रतिषेधेन प्रतिपादितमेव । किं च-न विद्यते पदम्-अवस्था(शी०) विशेषो यस्य सोऽपदः, तस्य पद्यते-गम्यते येनार्थस्तत्सदम्-अभिधानं तच्च 'नास्ति' न विद्यते, वाच्यविशेषाभावात्,
तथाहि-योऽभिधीयते स शब्दरूपगन्धरसस्पर्शान्यतरविशेषेणाभिधीयते, तस्य च तदभाव इत्येतदर्शयितुमाह, यदिवा ॥२३१॥
दीर्घ इत्यादिना रूपादिविशेषनिराकरणं कृतं, इह तु तत्सामान्यनिराकरणं कर्तुकाम आह
से न सद्दे न रूवे न गंधे न रसे न फासे, इच्चेव त्तिवेमि (सू० १७१)॥ षष्ठ उद्देशकः।
लोकसाराध्ययनं समाप्तं ॥५-६॥ 'स' मुक्तात्मा न शब्दरूपः न रूपात्मा न गन्धः न रसः न स्पर्श इत्येतावन्त एव वस्तुनो भेदाः स्युः, तत्प्रतिषेधाच्च नापरः कश्चिद्विशेषः सम्भाव्यते येनासौ व्यपदिश्यतेति भावार्थः । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । गतः सूत्रानुगमः, तद्गतौ चापवर्गमाप्त उद्देशकः, तदपवर्गावाप्तौ च नयवक्तव्यताऽतिदेशात्समाप्तं लोकसाराख्यं पञ्चममध्ययनमिति ॥ ग्रन्थाग्र०१११५॥
॥२३१॥
-
--
-
-
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org