SearchBrowseAboutContactDonate
Page Preview
Page 461
Loading...
Download File
Download File
Page Text
________________ सापरिणामलब्धात्मलाभानां तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात्, तथा घटपटादीनां दण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् , तनुकरणादीनामप्यवन्ध्यस्वकृतकम्मापादितं वैचित्र्यं, कम्मेणोऽनुपलब्धेः कुत एतदिति चेत् , समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तच्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति। तथा सालचा एवमाहुः-यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेर्महांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पश्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्ध्यध्यवसितमर्थ पुरुषश्चेतयते, स चाकर्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुङ्क्ते ततः कैवल्यावस्थायां द्रष्टाऽस्मीति निवर्त्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आत्मोपकाराय क्रियाप्रवृत्तिः स्यात्?, कुतो वा दृष्टत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ?, अचेतनायास्तद्विकल्पासम्भवात् , नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात् , पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षौत्सुक्यभोक्तृत्वाद्यभावः स्यादिति, उक्तं च-"न विरक्तो न निर्विण्णो, न भीतो भवबन्धनात् । न मोक्षसुखकाङ्की वा, पुरुषो निष्क्रियात्मकः॥१॥ कः प्रव्रजति साख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिष्यते? ॥२॥” इति । तथा शौद्धोदनिशिष्यका यत्सत्तित्सर्व क्षणिकमित्येवं व्यवस्थिताः, तत्रोत्तरम्, यदि निरन्वयो विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात् , एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्तानिव्यतिरेकेण कश्चित्सन्तानोऽस्ति, CARRIAGRICRORNYASRE dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy