SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ २२८ ॥ तथा च सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वम्, एवं च सर्वे सर्वस्य कारणं स्यात्, सर्वस्य पूर्वकालक्षणावस्थायि - त्वाद्यत्किञ्चिदेतदिति, किं च - "यजातमात्रमेव प्रध्वस्तं तस्य का क्रिया कुम्भे ? । नोत्पन्नमात्रभने क्षिष्ठं सन्तिष्ठते वारि ॥ १ ॥ कर्त्तरि जातविनष्टे धर्माधर्म्मक्रिया न सम्भवति । तदभावे बन्धः को बन्धाभावे च को मोक्षः १ ॥ २ ॥ इत्यादि । बार्हस्पत्यानां तु भूतवादेनात्मपुण्यपापपरलोकाभाववादिनां निर्म्मर्यादतया जनतातिगानां न्यक्कारपदव्याधानमनुत्तरमेवोत्तरमिति । अपि च - " अब्रह्मचर्यरतैर्मूढैः परदारघर्षणाभिरतैः । मायेन्द्रजालविषववत्प्रर्त्तितमसत्किमप्येतत् ॥ १ ॥ तथा — “ मिथ्या च दृष्टिर्भवदुःखधात्री, मिथ्यामतिश्चापि विवेकशून्या । धर्माय येषां पुरुषाधमानां, | तेषामधर्मो भुवि कीदृशोऽन्यः १ ॥ २ ॥" इत्यनया दिशा सर्वेऽपि तीर्थिकवादाः सर्वज्ञवादमनुश्रित्य निराकार्या इति स्थितं । तन्निराकरणं च सर्वज्ञप्रवादं निराकार्यं च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारैर्जानीयादित्याह - मननं मतिः- ज्ञानं | ज्ञानावरणीयक्षय क्षयोपशमान्यतरसद्भावानन्तरमेव सहसा - तत्क्षणमेव मत्या प्रातिभबोधावध्यादिज्ञानेन परिच्छिन्द्यात् सह वा ज्ञानेन ज्ञेयं सच्छोभनया मिथ्यात्वकलङ्काङ्करहितया मत्याऽवगच्छेत्, स्वपरावभासकत्वान्मतेरिति, कदाचित्परव्याकरणेनाप्यवगच्छेत् परः - तीर्थकृत्तस्य तेन वा व्याकरणं - यथावस्थितार्थप्रज्ञापनम् आगमः परव्याकरणं तेन वा जानीयात्, तथाऽप्यनवगमेऽन्येषामाचार्यादीनां अन्तिके श्रुत्वा यथावस्थितवस्तुसद्भावमवधारयेद् ॥ अवधार्य च किं कुर्या|दित्याह Jain Education International For Personal & Private Use Only लोक० ५ उद्देशकः ६ ॥ २२८ ॥ www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy