SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) लोक०५ उद्देशका ॥२२७॥ *540SANRUSSISSIPAS अभिभूय अदक्खू अणभिभूए पभू निरालंबणयाए जे महं अबहिमणे, पवारण प वायं जाणिज्जा, सहसंमइयाए परवागरणेणं अन्नेसिं वा अंतिए सुच्चा (सू० १६७) __'अभिभूय' पराजित्य परीपहोपसर्गान् घातिचतुष्टयं वा तत्त्वमद्राक्षीत् , किं च-नाभिभूतोऽनभिभूतः अनुकूलप्रतिकूलोपसगैः परतीर्थिकैर्वा, स एवम्भूतः 'प्रभुः' समर्थों निरालम्बनतायाः-नात्र संसारे मातापितृकलत्रादिकमालम्बनमस्तीति तीर्थकृद्वचनमन्तरेण नरकादौ पततामित्येवम्भूतभावनायाः समर्थो भवति, कः पुनः परीपहोपसर्गाणां जेता केनचिदनभिभूतो निरालम्बनतायाः प्रभुर्भवति? इत्येवं पृष्ट तीर्थकृत् सुधर्मस्वाम्यादिको वाऽऽचार्योऽन्तेवासिनमाह-यः पुरस्कृतमोक्षो 'महान्' महापुरुषो लघुकर्मा ममाभिप्रायान्न विद्यते बहिर्मनो यस्यासावबहिर्मनाः, सर्वज्ञोपदेशवत्तीति यावत्, कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-प्रकृष्टो वादः प्रवादः-आचार्यपारम्पर्योपदेशः प्रवादस्तन प्रवादेन प्रवादसर्वज्ञोपदेशं 'जानीयात्' परिच्छिन्द्यादिति । यदिवाऽणिमाद्यष्टविधैश्वर्यदर्शनादपि न तीर्थकृद्वचनाद्वहिर्मनो विधत्ते, तीर्थिकानिन्द्रजालिककल्पानिति मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति, कथमित्याह-'पवाएण पवायं जाणिज्जा' प्रकृष्टो वादःप्रवादः-सर्वज्ञवाक्यं तेन मौनीन्द्रेण प्रवादेन तीर्थकप्रवाद 'जानीयात्' परीक्षयेत् , तद्यथा-वैशेषिकाः तनुभुवनकरणादिकमीश्वरकर्तृकमिति प्रतिपन्नाः, तदुक्तम्-"अन्यो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव च ॥१॥” इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत् , तद्यथा-अभ्रेन्द्रधनुरादीनां विस्र चेदाह-प्रकृष्टो वादः प्रवाद दर्शनादपि न तीर्थकृपा जाणिज्जा' प्र ॥२२७॥ dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy