SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ RASANSAR अणाणाए एगे सोवटाणा आणाए एगे निरुवटाणा, एयं ते मा होउ, एयं कुसलस्स दंसणं, तट्टिीए तम्मुत्तीए तप्पुरकारे तस्सन्नी तन्निवेसणे (सू० १६६) इह तीर्थकरगणधरादिनोपदेशगोचरीभूतो विनेयोऽभिधीयते, यदिवा सर्वभावसम्भवित्वाद्भावस्य सामान्यतोऽभिधानम् , अनाज्ञा-अनुपदेशः स्वमनीषिकाचरितोऽनाचारस्तयाऽनाज्ञया तस्यां वा 'एके' इन्द्रियवशगा दुर्गति जिगमिषवः स्वाभिमानग्रहग्रस्ताः सह उपस्थानेन-धर्माचरणाभासोद्यमेन वर्तन्त इति सोपस्थानाः, किल वयमपि प्रत्रजिताः सदसद्धर्मविशेषविवेकविकलाः सावद्यारम्भतया प्रवर्त्तन्ते, एके तु न कुमार्गवासितान्तःकरणाः, किन्तु आलस्यावर्णस्तम्भाधुपबृंहितबुद्धयः, 'आज्ञायां' तीर्थकरोपदेशप्रणीते सदाचारे निर्गतमुपस्थानम्-उद्यमो येषां ते निरुपस्थानाः-सर्वज्ञप्रणीतसदाचारानुष्ठानविकलाः। एतत्कुमार्गानुष्ठानं सन्मार्गावसीदनं च द्वयमपि 'ते' तव गुरुविनेयोपगतस्य दुर्गतिहेतुत्वान्मा भूदिति सुधर्मस्वामी स्वमनीषिकापरिहारार्थमाह-एतद्' यत्पूर्वोक्तं यदिवा अनाज्ञायां निरुपमस्थानत्वमाज्ञायां च सोपमस्थानत्वमित्येत् 'कुशलस्य' तीर्थकृतो दर्शनमभिप्रायः, यदिवैतद्वक्ष्यमाणं कुशलस्य दर्शनमित्याह-कुमार्ग परित्यज्य सदाऽऽचार्यान्तेवासिना एवंभूतेन भाव्यं, तस्य-आचार्यस्य दृष्टिस्तदृष्टिस्तया वर्तितव्यं, सा वा तीर्थकरप्रणीतागमदृष्टिस्तदृष्टिस्तयेति, तथा तस्य-आचार्यस्य तीर्थकृतो वा मुक्तिस्तन्मुक्तिस्तया, तथा तमाचार्य सर्वकार्येषु पुरः करोतीति तत्पुरस्कारः-आचार्यानुमत्या क्रियानुष्ठायीत्यर्थः, तथा तत्संज्ञी-तज्ज्ञानोपयुक्तः, तथा तन्निवेशन:-सदा गुरुकुलनिवासी ॥ स एवंभूतः किंगुणः स्यादित्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy