SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ लोक०५ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशक:५ ॥२२॥ दाप्रवाहहूदवत् , अपरस्तु परिगलत्स्रोताः नो पर्यागलस्रोताः, पद्मदवत् , तथा परो नो परिगलत्स्रोताः पर्यागलस्रोताच, लवणोदधिवत्, अपरस्तु नो परिगलस्रोता नो पर्यागलस्रोताच, मनुष्यलोकादहिः समुद्रवत् । तत्राचार्यः श्रुतमङ्गीकृत्य प्रथमभङ्गपतितः, श्रुतस्य दानग्रहणसद्भावात् , साम्परायिककर्मापेक्षया तु द्वितीयभङ्गपतितः, कषायोदयाभावेन ग्रहणाभावात्तपःकायोत्सर्गादिना क्षपणोपपत्तेश्चेति, आलोचनामङ्गीकृत्य तृतीयभङ्गपतितः, आलोचनाया 8 अप्रतिश्रावित्वात् , कुमार्ग प्रति चतुर्थभङ्गपतितः, कुमार्गस्य हि प्रवेशनिर्गमाभावात् , यदिवा धम्मिभेदेन भङ्गा योज्यन्ते-तत्र स्थविरकल्पिकाचार्याः प्रथमभङ्गपतिताः, द्वितीयभङ्गपतितस्तीर्थकृत् , तृतीयभङ्गस्थस्त्वहालन्दिकः, स च क्वचिदर्थापरिसमाप्तावाचार्यादेन्निर्णयसद्भावात् , प्रत्येकबुद्धास्तूभयाभावाच्चतुर्थभङ्गस्था इति, इह पुनः प्रथमभङ्गपतितेनोभयसद्भाविनाऽधिकारः, तथाभूतस्यैवायं ह्रददृष्टान्तः, स च ह्रदो निर्मलजलस्य 'प्रतिपूर्णो' जलजैः सर्वर्तुजैरुपशोभितः समे भूभागे विद्यमानोदकनिर्गमप्रवेशो नित्यमेव तिष्ठति, न कदाचिच्छोषमुपयाति, सुखोत्तारावतारसमन्वितः, उपशान्तम्-अपगतं रजः कालुष्यापादकं यस्य स तथा, नानाविधांश्च यादसां गणान् संरक्षन् सह वा यादोगणैरात्मानमारक्षन्-प्रतिपालयन सारक्षन् तिष्ठतीत्येषा क्रिया प्रकृतैव । यथा चासौ ह्रदस्तथाऽऽचार्योऽपीति दर्शयति–'सः' मप्रवेशोदान्तः, साचतुर्थभङ्गस्था मङ्गस्थस्त्वहालमा यो ॥२२०॥ १ उदकाः करो यावत्कालेन शुष्यति तज्जघन्यं लन्दं तत आरभ्योत्कृष्टं पश्चरात्रिंदिवलक्षणं लन्दं, तदत्र गृह्यते, उत्कृष्टलन्दस्यानतिक्रमेण चरन्तीति यथालन्दिकाः, पञ्चको गणोऽमुं कल्पं प्रतिपद्यते, मासकल्पक्षेत्रं च गृहपतिहाराभिः षड्भिवीथीभिर्जिनकल्पिकवत्परिकल्पयन्ति. २ पर्यागलस्रोतोवदर्थापेक्षया ग्राहकत्वात् तृतीयभङ्गपतित इति गम्यम्. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy