________________
हरणार्थमाह-एतद्' यदुद्देशकादेरारभ्योक्तं, मुनेरिदं मौनं मुनिभावो वा तदात्मनि समनुवासयेः-आत्मनि विदध्याः॥ | इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने चतुर्थोद्देशकः परिसमाप्तः॥
उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशकेऽव्यक्तस्यैकचरस्य प्रत्यपायाः प्रदर्शिताः, अतस्तान् परिजिहीर्षुणा सदाऽऽचार्यसेविना भवितव्यम् , आचार्येण च इदोपमेन भाव्यं, तदन्तेवासिना च तपःसंयमगुप्तेन निःसङ्गेन च विहर्त्तव्यमिति, एतत्प्रतिपादनसम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम्
से बेमि तंजहा-अवि हरए पडिपुण्णे समंसि भोमे चिट्ठइ उवसंतरए सारक्खमाणे,
से चिटुइ सोयमझगए से पास सव्वओ गुत्ते, पास लोए महेसिणो जे य पन्नाण___मंता पबुद्धा आरम्भोवरया सम्ममेयंति पासह, कालस्स कंखाए परिव्वयंति
त्तिबेमि (सू० १६०) सेशब्दस्तच्छब्दार्थे, यद्गुण आचार्यों भवति तदहं तीर्थकरोपदेशानुसारेण ब्रवीमीति, तद्यथेति वाक्योपन्यासार्थे, अपिशब्दो भङ्गसमुच्चयार्थः, ते चामी भङ्गाः-एको ह्रदो-जलाशयः परिगलत्स्रोताः पर्यागलत्स्रोताश्च, सीतासीतो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org