SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) लोक०५ उद्देशका४ ॥२१९॥ त्रासङ्गः-संबन्धस्तत्करा भवन्ति, यदिवा कलहः-क्रोधः आसङ्गो-राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह-ऐहिकामुष्मिकापायतः स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्त'त्ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं तीर्थकरवचनानुसारेण-दुःखं च ताः परिहर्तुमिति, पुनरपि तत्सरिहरणोपायमाह-'स' स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् , एवं च तास्त्यक्ता भवन्ति, तथा-तासां नरकवीथीनां स्वर्गापवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् , यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति, उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां, लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । धूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ॥” तथा-ताभिर्नरकविसम्भभूमिभिः सार्द्ध न सम्प्रसारणं-पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादिति, उक्तं च-"मात्रा स्वना दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥१॥” इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा-कृता-अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात् , काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीन वाङ्मात्रेणाप्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्म-मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः-स्त्रीभोगादत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्च किमपरं कुर्यादित्याह-परिः-समन्तात् वर्जयेत्-परिहरेत् 'सदा सर्वकालं 'पाप' किल्बिषं तदुपादानं वा कर्म, उपसं R ॥२१९॥ Jain Education Intematonal For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy