SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ SCREUSSANASSA दर्शयति-अप्यवमौदर्य कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वल्लचनकादिना द्वात्रिंशकवलमात्रं गृह्णीयात् , तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतद्दर्शयति-अप्यूर्व स्थानं तिष्ठेत् , शीतोष्णादौ कायोत्सर्गेणातापनां कुर्यात् , तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् , निष्कारणे विहारो निषिद्धो मोहोपशमनार्थ तु कुर्यात् , किंबहुना?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात्, पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पातं विदध्यात् अप्युदन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत् , तत्सरित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च-"काम! जानामि ते रूपं, संकल्पात्किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१॥" किं पुनः कारणं स्त्रीषु मनो न विधेयमित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थदृशां 'पूर्व' प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, ते च स्त्रीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमि-13 त्युक्तं, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा स्याद्यकार्यप्रवृत्तस्य पूर्व दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्व दण्डाःप्रताडनादिकाः पश्चात्स्पर्शाः-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-वन्द्यानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावील ग्रहणाद्राजपुरुषावलोकनताडनेन मूच्छितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्स्पर्शा इति, पूर्व वा सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति । किं च-इत्येते स्त्रीसम्बन्धाः कलहः-सङ्ग्रामस्त dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy