________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक०५ उद्देशका
॥२१८॥
सर्वकालं यतः सदायतः, स एवम्भूतोऽप्रमत्तो गुरोरन्तिकमावसन् प्रमादजनितस्य कर्मणोऽन्तं विधत्ते । स च स्याद्यनुकूलपरीषहोपपत्तौ किं विदध्यादित्याह-'दृष्ट्वा' अवलोक्य स्त्रीजनमुपसर्गकरणायोद्यतमात्मानं 'विप्रतिवेदयति' पर्यालोचयति, तद्यथा-सम्यग्दृष्टिरस्मि, तथोत्क्षिप्तमहाव्रतभारः शरच्छशाङ्कनिर्मलकुललब्धजन्मा अकार्याकरणतयोत्थित इत्येवमात्मानं पर्यालोचयति, तं च स्त्रीजनं किमेष स्त्रीजनो मम त्यक्तजीविताशस्योज्झितैहिकसुखाभिलाषस्योपसगर्गादिकं कुर्यात्?, अथवा वैषयिकसुखस्य दुःखप्रतीकाररूपत्वात् किमेष स्त्रीजनःसुखं विदध्याद् ? अन्यो वा पुत्रकलत्रादिको जनो मम मृत्युना जिघृक्षितस्य व्याधिना वाऽऽदित्सितस्य किं तत्प्रतीकारादिकं कुर्यादिति ? । यदिवैवं स्त्रीजनस्वभावं चिन्तयेदिति सूत्रेणैव दर्शयति-स एष स्त्रीजन आरमयतीत्यारामः परमश्चासावारामश्च परमारामः ज्ञाततत्त्वमपि जनं हासविलासोपाङ्गनिरीक्षणादिभिर्बिब्बोकर्मोहयतीत्यर्थः, याः काश्चनास्मिन् लोके स्त्रियः ता मोहरूपा विज्ञाय यावन्न परित्यजन्ति तावत्स्वत एव परित्यजेत् । एतच्च तीर्थकरेण प्रवेदितमिति दर्शयितुमाह-'मुनिना' श्रीवर्द्धमानस्वामिनोत्पन्नज्ञानेनैव 'एतत्' पूर्वोक्तं, यथा स्त्रियो भावबन्धनरूपाः, 'प्रवेदित' प्रकर्षेणादौ वा व्याख्यातमिति । एतच्च वक्ष्यमाणं प्रवेदितमित्याह-उत्-प्राबल्येन मोहोदयाद् बाध्यमानः-पीड्यमानः उद्बाध्यमानः, कैः?-ग्रामधम्मैः ग्रामाः-इन्द्रियग्रामास्तेषां धाः-स्वभावा यथास्वं विषयेषु प्रवर्तनं तैरुद्धाध्यमानो गच्छान्तर्गतः सन् गुदिनाऽनुशास्यते, कथमनुशास्यत इत्यत आह-अपिः सम्भावनायां, निर्बलं-निःसारमन्तप्रान्तादिकं यव्यं तदाशकः-तद्भोजी स्यात् , यदिवा निर्गतं बलं-सामर्थ्यमस्येति निर्बलः एवम्भूतः सन्नाशीत, बलाभावे च ग्रामधर्मोपशमदर्शनाद्, बलाभावश्चाहारहान्या स्यादिति
॥२१८॥
in Education International
For Personal & Private Use Only
www.janelibrary.org