SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आचार्यः प्रथमभङ्गपतितः पञ्चविधाचारसमन्वितोऽष्टविधाचार्यसम्पदुपेतः, [तद्यथा-"आयार सुअ सरीरे वयणे वायण मई पओगमई । एए सुसंपया खलु अट्ठमिआ सङ्गहपरिन्ना ॥१॥"] षट्त्रिंशद्गुणगणाधारो इदकल्पो निर्मलज्ञानप्रतिपूर्णः समे भूभाग इति संसक्तादिदोषरहिते सुखविहारे क्षेत्रे समो वा ज्ञानदर्शनचारित्राख्यो मोक्षमार्गः उपशमवतां तत्र तिष्ठति-समध्यास्ते, किंभूतः?-'उपशान्तरजा' उपशान्तमोहनीय इति, किं कुर्वन् !-जीवनिकायान् रक्षन् स्वतः परतश्च सदुपदेशदानतो नरकादिपाताद्वेति, 'स्रोतोमध्यगत' इत्यनेन प्रथमभङ्गपतितं स्थविराचार्यमाह, तस्य हि श्रुतार्थदानग्रहणसद्भावात् स्रोतोमध्यगतत्वम्, स च किम्भूतः स्यादित्याह-'सः' आचार्योऽक्षोभ्यहूदकल्पः 'सर्वतः' सर्वप्रकारतयेन्द्रियनोइन्द्रियरूपया गुह्या गुप्त इत्येतत्पश्य आचार्यव्यतिरेकेणान्येऽप्येवम्भूता बहवः साधवः सम्भवन्ती|त्येतन्निर्दिदिक्षुराह-इह मनुष्यलोके पूर्वव्यावर्णितस्वरूपाः 'महर्षयो' महामुनयः सन्ति, इत्येतत्पश्य, किम्भूतास्ते महशर्षय इत्यत आह-न केवलमाचार्या ह्रदकल्पा ये चान्ये साधवस्तेऽपि इदकल्पाः, किम्भूताः-प्रकर्षेण ज्ञायतेऽनेनेति प्र ज्ञान-स्वपरावभासकत्वादागमस्तद्वन्तः प्रज्ञानवन्तः, आगमस्य वेत्तार इत्यर्थः, तज्ज्ञा अपि मोहोदयात् क्वचिद्धेतूदाहरणासम्भवे ज्ञेयगहनतया संशयानाः न सम्यक् श्रद्धानं विदध्युरित्यतो विशिनष्टि-'प्रबुद्धाः' प्रकर्षेण यथैव तीर्थकृदाह तथैवावगततत्त्वाः प्रबुद्धाः, तथाभूता अपि कर्मगुरुत्वान्न सावद्यानुष्ठानविरतिं कुर्युरित्यतो विशेषयति-'आरम्भोपरताः' आरम्भः-सावद्यो योगस्तस्मादुपरता आरम्भोपरताः, एतच्च न मदुपरोधेन ग्राह्यम् अपि तु स्वत एव कु १ आचारः श्रुतं शरीरं वचनं वाचना मतिः प्रयोगमतिः । एताः सुसंपदः खलु अष्टमी संग्रहपरिज्ञा ॥१॥ dain Education International For Personal & Private Use Only www.janelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy