________________
श्रीआचाराङ्गवृत्तिः (शी०)
प्रकृतमनुनियते-तत्रेह 'एवमेगेसिं णो णायं भवई' इत्यनेन केषाञ्चिदेव संज्ञानिषेधात्केषाञ्चित्तु भवतीत्युक्तं भवति, अध्ययनं १ तत्र सामान्यसंज्ञायाः प्रतिप्राणि सिद्धत्वात्तत्कारणपरिज्ञानस्य चेहाकिञ्चित्करत्वाद्विशिष्टसंज्ञायास्तु केषाञ्चिदेव भावात्
उद्देशकः१ तस्याश्च भवान्तरगाम्यात्मस्पष्टप्रतिपादने सोपयोगित्वाद् सामान्यसंज्ञाकारणप्रतिपादनमनाहत्य विशिष्टसंज्ञायाः कारणं । सूत्रकृद्दर्शयितुमाह
से जं पुण जाणेज्जा सह संमइयाए परवागरणेणं अण्णेसिं अंतिए वा सोच्चा तंजहा-पुरथिमाओ वा दिसाओ आगओ अहमंसि जाव अण्णयरीओ दिसाओ अणुदिसाओ वा आगओ अहमंसि, एवमेगेसिं जं णायं भवति-अस्थि मे आया उववाइए, जो इमाओ (दिसाओ) अणुदिसाओ वा अणुसंचरेइ, सव्वाओ दिसाओ अ-.
दिसाओ, सोऽहं (सू०४) 'से जं पुण जाणेजत्ति सूत्रं यावत् सोऽहमिति 'से' इति निर्देशो मागधशैल्या प्रथमैकवचनान्तः, स इत्यनेन च यः || प्राग्निर्दिष्टो ज्ञाता विशिष्टक्षयोपशमादिमान् स प्रत्यवमृश्यते, यदित्यनेनापि यत्नाग्निर्दिष्टं दिग्विदिगागमनं, तथा कोडहमभूवमतीतजन्मनि देवो नारकस्तिर्यग्योनो मनुष्यो वा ? स्त्री पुमानपुंसको वा ?, को वाऽमुतो मनुष्यजन्मनः प्रभ्रष्टो
१ अणुसंसरह (इति पा०)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org