________________
मकरणे लोके स्वल्पो दोषो, लोकोत्तरेऽपि आकुट्टिकानाभोगसहसाकारादिषु क्षुल्लकभिक्षुस्थविरोपाध्यायसूरीणां यथाक्रममुत्तरोत्तरं प्रायश्चित्तमित्येवमन्येष्वपि विकल्पेष्वायोज्यम् ॥ तथा वैनयिकानां द्वात्रिंशद्भेदाः, ते चानेन विधिना भावनीयाः-सुरनृपयतिज्ञातिस्थविराधममातृपितृष्वष्टसु मनोवाकायप्रदानचतुर्विधविनयकरणात्, तद्यथा-देवानां विनयं करोति मनसा वाचा कायेन तथा देशकालोपपन्नेन दानेनेत्येवमादि । एते च विनयादेव स्वर्गापवर्गमार्गमभ्युपयन्ति, नीचैवृत्त्यनुत्सेकलक्षणो विनयः, सर्वत्र चैवंविधेन विनयेन देवादिषूपतिष्ठमानः स्वर्गापवर्गभाग् भवति, उक्तं च-"विणया णाणं णाणाओ देसणं दसणाहि चरणं च । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाहं ॥१॥" अत्र च क्रियावादिनामस्तित्वे सत्यपि केषाञ्चित्सर्वगतो नित्योऽनित्यः कर्ताकर्ता मूर्तोऽमूर्तः श्यामाकतण्डुलमात्रोऽङ्गुष्ठप
मात्रो दीपशिखोपमो हृदयाधिष्ठान इत्यादिकः, अस्ति चौपपातिकश्च, अक्रियावादिनां त्वात्मैव न विद्यते, कुतः पुनरौपपातिकत्वम् ?, अज्ञानिकास्तु नात्मानं प्रति विप्रतिपद्यन्ते, किन्तु तज्ज्ञानमकिञ्चित्करमेषामिति, वैनयिकानामपि नात्माऽस्तित्वे विप्रतिपत्तिः, किन्त्वन्यन्मोक्षसाधनं विनयादृते न सम्भवतीति प्रतिपन्नाः । तत्रानेन सामान्यात्मास्तित्वप्रतिपादनेनाक्रियावादिनो निरस्ता द्रष्टव्याः, आत्मास्तित्वानभ्युपगमे च-“शास्ता शास्त्रं शिष्यः प्रयोजनं वचनहेतुदृष्टान्ताः। | सन्ति न शून्यं ब्रुवतस्तदभावाच्चाप्रमाणं स्यात् ॥ १॥ प्रतिषेप्रतिषेधौ स्तश्चेच्छून्यं कथं भवेत्सर्वम् ? । तदभावेन तु| सिद्धा अप्रतिषिद्धा जगत्यर्थाः॥२॥" एवं शेषाणामप्यत्रैव यथासम्भवं निराकरणमुत्प्रेक्ष्यमिति ॥ ३ ॥ गतमानुषङ्गिकं,
१ विनयात् ज्ञानं ज्ञानाद्दर्शनं दर्शनात् (ज्ञानदर्शनाभ्यां) चरणं च । चरणात् (ज्ञानदर्शनचारित्रेभ्यः) मोक्षो मोक्षे सौख्यमनाबाधम् ॥ १ ॥
,
सू.४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org