________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥१८॥
जनानां सुखदुःखजातम् । काकस्य तालेन यथाऽभिघातो, न बुद्धिपूर्वोऽत्र वृथाऽभिमानः॥१॥ सत्यं पिशाचाः स्म अध्ययनं १ वने वसामो, भेरिं करात्रैरपि न स्पृशामः । यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचाः परिताडयन्ति ॥ २॥" यथा काकतालीयमबुद्धिपूर्वकं, न काकस्य बुद्धिरस्ति-मयि तालं पतिष्यति, नापि तालस्याभिप्रायः-काकोपरि पतिष्यामि, अथ
उद्देशकः१ च तत्तथैव भवति, एवमन्यदप्यतर्कितोपनतमजाकृपाणीयमातुरभेषजीयमन्धकण्टकीयमित्यादि द्रष्टव्यम् , एवं सर्व जातिजरामरणादिकं लोके यादृच्छिकं काकतालीयादिकल्पमवसेयमिति। एवं नियतिस्वभावेश्वरात्मभिरप्यात्मा निराकर्त्तव्यः ॥
तथाऽज्ञानिकानां सप्तपष्टिर्भेदाः, ते चामी-जीवादयो नव पदार्था उत्पत्तिश्च दशमी सत् असद् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसदवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते न च विज्ञातैः प्रयोजनमस्ति, भावना चेयम्-सन् जीव इति को वेत्ति? किं वा तेन ज्ञातेन?, असन् जीव इति को जानाति? किं वा तेन ज्ञातेनेत्यादि, एवमजीवादिष्वपि प्रत्येकं सप्त विकल्पाः, नव सप्तकास्त्रिषष्टिः, अमी चान्ये चत्वारस्त्रिषष्टिमध्ये प्रक्षि-15 प्यन्ते, तद्यथा-सती भावोत्पत्तिरिति को जानाति ? किं वाऽनया ज्ञातया? एवमसती सदसती अवक्तव्या भावोत्पत्ति-र रिति को वेत्ति ? किं वाऽनया ज्ञातयेति, शेषविकल्पत्रयमुत्पत्त्युत्तरकालं पदार्थावयवापेक्षमतोऽत्र न सम्भवतीति नोक्तम्, एतच्चतुष्टयप्रक्षेपात्सप्तषष्टिर्भवन्ति । तत्र सन् जीव इति को वेत्ति? इत्यस्यायमर्थः-न कस्यचिद्विशिष्टं ज्ञानमस्ति योऽतीन्द्रियान् जीवादीनवभोत्स्यते, न च तैातैः किञ्चित्फलमस्ति, तथाहि-यदि नित्यः सर्वगतोऽमूर्तो ज्ञानादिगुणोपेत
॥१८॥ एतद्गुणव्यतिरिक्तो वा? ततः कतमस्य पुरुषार्थस्य सिद्धिरिति, तस्मादज्ञानमेव श्रेयः । अपि च-तुल्येऽप्यपराधे अका
dain Education International
For Personal & Private Use Only
www.jainelibrary.org