________________
च-"अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेच्छुळं वा स्वर्गमेव वा ॥१॥" तथाऽन्ये ब्रुवते |-न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा ?, आत्माद्वैतवादिनां | विश्वपरिणतिरूपः, उक्तञ्च-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत्
॥१॥" तथा-"पुरुष एवेदं सर्वं यद्भूतं यच्च भाव्य"मित्यादि। एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ । तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपहरभेदद्वयेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः षनिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्ति |
जीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति | ८४ । अयमत्रार्थः-नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा?, न चात्मनस्तादृगस्ति किश्चिल्लक्षणं येन सत्ता प्रतिपद्येमहि, नापि कार्यमणूनामिव महीध्रादि सम्भवति, यच्च लक्षणकार्याभ्यां । नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्, तस्मान्नास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति |गगनारविन्दादिकं तत्परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाच्चोभयानुपलब्धेः
सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्तं च-"यावद् दृश्यं परस्तावद्भागः स च न दृश्यते” इत्यादि, तथा यदृच्छामातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा?, अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, "अतर्कितोपस्थितमेव सर्व, चित्रं
न सत्ता प्रतिपकालत इति, हावादिष्वपि मत्य एवं यहच्छानिय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org