________________
ACCESSASAROGRAM
ऽहं प्रेत्य देवादिर्भविष्यामीत्येतत्परामृश्यते, 'जानीयाद्' अवगच्छेद्, इदमुक्तं भवति-न कश्चिदनादौ संसृतौ पर्यटन्नसुमान दिगागमनादिकं जानीयात्, यः पुनर्जानीयात्स एवं 'सह सम्मइयाए'त्ति सहशब्दः सम्बन्धवाची, सदिति प्रशंसायां, मतिः-ज्ञानम् , अयमत्र वाक्यार्थः-आत्मना सह सदा या सन्मतिर्वर्त्तते तया सन्मत्या कश्चिन्जानीते, सहशब्दविशेषणाच्च सदाऽऽत्मस्वभावत्वं मतेरावेदितं भवति, न पुनर्यथा वैशेषिकाणां व्यतिरिक्ता सती समवायवृत्त्याऽऽत्मनि समवेतेति । यदि वा 'सम्मइए'त्ति स्वकीयया मत्या स्त्रमत्येति, तत्र भिन्नमप्यश्वादिकं स्वकीयं दृष्टमतः सहशब्दविशेषणं, सहशब्दश्चासमस्त इति, सत्यपि चात्मनः सदा मतिसन्निधाने प्रबलज्ञानावरणावृतत्वान्न सदा विशिष्टोऽवबोध इति, सा पुनः सन्मतिः स्वमतिर्वा अवधिमनःपर्यायकेवलज्ञानजातिस्मरणभेदाच्चतुर्विधा ज्ञेया, तत्रावधिमनःपर्यायकेवलानां स्वरूपमन्यत्र विस्तरणोक्तं, जातिस्मरणं त्वाभिनिबोधिकविशेषः, तदेवं चतुर्विधया मत्याऽऽत्मनः कश्चिद्विशिष्टदिग्गत्यागती जानाति, कश्चिच्च परः-तीर्थकृत्सर्वज्ञः, तस्यैव परमार्थतः परशब्दवाच्यत्वात्परत्वं, तस्य तेन वा व्याकरणम्-उपदेशस्तेन जीवांस्तद्भेदांश्च-पृथिव्यादीन् तद्गत्यागती च जानाति, अपरः पुनः 'अन्येषां' तीर्थकरव्यतिरिक्तानामतिशयज्ञानिनाम|न्तिके श्रुत्वा जानातीति, यच्च जानाति तत् सूत्रावयवेन दर्शयति-तद्यथा-पूर्वस्या दिश आगतोऽहमस्मि, एवं दक्षिणस्याः पश्चिमायाः उत्तरस्या ऊर्ध्वदिशोऽधोदिशोऽन्यतरस्या दिशोऽनुदिशो वाऽऽगतोऽहमस्मीत्येवमेकेषां विशिष्टक्षयोपशमादिमतां तीर्थकरान्यातिशयज्ञानिबोधितानां च ज्ञानं भवति, तथा प्रतिविशिष्टदिगागमनपरिज्ञानान्तरमेषामेतदपि ज्ञानं भवतियथा अस्ति मेऽस्य शरीरकस्याधिष्ठाता ज्ञानदर्शनोपयोगलक्षण 'उपपादुको' भवान्तरसंक्रातिभाग असर्वगतो भोक्ता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org