________________
वन्तो भवन्ति, यदिवैतेष्वेव षट्सु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात् कथमपरिग्रहभावः स्यादित्याह - 'सोच्चा' इत्यादि 'वई' त्ति सुब्व्यत्ययेन द्वितीयार्थे प्रथमाडतो वाचं - तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकर्ण्य 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डितानां' गणधराचार्यादीनां विधिनियमात्मकं वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्म्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारे कापनोदा|र्थमाह - 'समिय'त्ति 'समता' समशत्रु मित्रता तयाऽऽयैर्द्धर्म्मः प्रवेदित इति उक्तं च- "जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति । संधुणइ जो अ जिंदति महेसिणो तत्थ समभावा ॥ १ ॥” यदिवाऽऽर्येषु - देशभाषाचरित्राऽऽर्येषु | समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्- "जहा पुण्णस्स कत्थइ तहा तुच्छस्स कत्थई " त्यादि, अथवा शमिनो | भावः शमिता तया सर्वहेयधर्म्मारातीयवर्त्तिभिः आर्यैः प्रकर्षेणादौ वा धर्मो वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इतियावत् । स्याद्-अन्यैरपि स्वाभिप्रायेण धर्म्माः प्रवेदिता एवेत्यतस्तद्व्युदासार्थं भगवाने वाह' जहेत्थे'त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह - यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ' त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा | स्वत एव सन्धानं सन्धिः - कर्म्मसन्ततिः सन्धीयत इति वा भवाद्भवान्तरमनेनेति सन्धिः - अष्टप्रकार कर्म्मसन्ततिरूपः स १ यश्चन्दनेन बाहू आलिम्पति वास्या वा तक्ष्णोति । संस्तौति यश्च निन्दति महर्षयस्तत्र समभावाः ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org