SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ लोक०५ श्रीआचाराङ्गवृत्तिः (शी०) उद्देशका व्यवस्थितस्यैवेति । किं च-'इत्थ' इत्यादि, 'अत्र' अस्मिन् परिग्रहे जिघृक्षिते विरतः, कोऽसौ ?-नास्यागारं-गृहं विद्यत इत्यनगारः, स एवम्भूतो 'दीर्घरात्रं' यावज्जीवं परिग्रहाभावात् यत् क्षुत्पिपासादिकमागच्छति तत् 'तितिक्षेत' सहेत । पुनरप्युपदेशदानायाह-'पमत्ते' इत्यादि, प्रमत्तान्-विषयादिभिः प्रमादैर्बहिर्द्धर्माब्यवस्थितान् पश्य गृहस्थतीर्थिकादीन् । दृष्ट्वा च किं कुर्यादिति दर्शयति-अप्रमत्तः सन् संयमानुष्ठाने परिव्रजेदिति । किं च–'एय' मित्यादि, 'एतत्' पूर्वोक्तं संयमानुष्ठानं मुनेरिदं मौनं-सर्वज्ञोक्तं सम्यग् 'अनुवासयेः' प्रतिपालयेः 'इति' अधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् । लोकसाराध्ययने द्वितीयोदेशकः समाप्तः ॥२०८॥ __ उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते-अस्य चायमभिसम्बन्धः-इहानन्तरोक्तोद्देशकेऽविरतवादी परिग्रहवानित्यभिहितम् , इह तु तद्विपर्यय उच्यते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् आवंती केयावंती लोयंसि अपरिग्गहावंती एएसु चेव अपरिग्गहावंती, सुच्चा वई मेहावी पंडियाण निसामिया समियाए धम्मे आरिएहिं पवेइए जहित्थ मए संधी झो सिए एवमन्नत्थ संधी दुजोसए भवइ, तम्हा बेमि नो निहणिज्ज वीरियं । (सू० १५१) यावन्तः केचन लोकेऽपरिग्रहवन्तो विरता यतय इत्यर्थः, ते सर्वे एतेष्वेव-अल्पादिषु द्रव्येषु त्यक्तेषु सत्स्वपरिग्रह ॥२०८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy