SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ RRRRRRR ज्ञया परिहरेत् । तसरिहर्जुश्च यत्स्यात्तदाह-एए संगे' इत्यादि, 'एतान् अल्पादिद्रव्यपरिग्रहसङ्गान् शरीराहारादिसगान् वा 'अविजानतः'अकुर्वाणस्य वा तत्परिग्रहजनितं महाभयं न स्यात् ॥ किं च से सुपडिबद्धं सूवणीयंति नच्चा पुरिसा परमचक्खू विपरिकमा, एएसु चेव बंभचेरं तिबेमि, से सुयं च मे अज्झत्थयं च मे-बंधपमुक्खो अज्झत्थेव, इत्थ विरए अणगारे दीहरायं तितिक्खए, पमत्ते बहिया पास, अप्पमत्तो परिवए, एयं मोणं सम्मं अ___णुवासिज्जासि तिबेमि ( सू० १५०)। लोकसाराध्ययने द्वितीयोद्देशकः ५-२॥ 'से' तस्य परिग्रहपरिहर्तुः सुष्टु प्रतिबद्धं सुप्रतिबद्धं सुष्टुपनीतं सूपनीतं ज्ञानादि इत्येतत् ज्ञात्वा 'हे पुरुष!' मानव ! परमं ज्ञानं चक्षुर्यस्यासौ परमचक्षुः मोक्षकदृष्टिा सन् विविधं तपोऽनुष्ठानविधिना संयमे कर्मणि वा पराक्रमस्वेति । अथ किमर्थ पराक्रमणोपदेश इत्यत आह–'एएसु चेवे' त्यादि, य इमे परिग्रहविरताः परमचक्षुषश्चैतेष्वेव परमार्थतो ब्रह्मचर्य नान्येषु, नवविधब्रह्मचर्यगुप्त्यभावाद् , यदिवा ब्रह्मचर्याख्योऽयं श्रुतस्कन्धः, एतद्वाच्यमपि ब्रह्मचर्य तदेतेवेवापरिग्रहवत्सु, इतिरधिकारपरिसमाप्तौ, ब्रवीम्यहं यदुक्तं वक्ष्यमाणं च सर्वज्ञोपदेशादित्याह-से सुअंच में इत्यादि, तद्यत् कथितं यच्च कथयिष्यामि तच्छ्रतं च मया तीर्थकरसकाशात् तथा आत्मन्यधि अध्यात्मं ममैतच्चेतसि दाव्यवस्थितं, किं तदध्यात्मनि स्थितमिति दर्शयति-बन्धात्सकाशात्प्रमोक्षः बन्धप्रमोक्षस्तथा 'अध्यात्मन्येव' ब्रह्मचर्ये Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy