SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ES श्रीआचाराङ्गवृत्तिः (शी०) ॥२०७॥ चित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वतिनो तिनोऽपि स्युः, यदि लोक०५ वैतेष्वेव षट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूर्ची कुर्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो उद्देशकः२ विरतिवादं वदन्नल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेषेष्वपि व्रतेष्वायोज्यम् , एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारिताम्रवत्वात् । यद्येवमल्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सरजस्कबोटिकादयोऽपरिग्रहाः स्युः, तेषां तदभावात् , नैतदस्ति, तदभावादित्यसिद्धो हेतुः, तथाहि-सरजस्कानामस्थ्यादिपरिग्रहाद्वोटिकानामपि पिञ्छिकादिपरिग्रहाद् अन्त(न्तत)श्च शरीराहारादिपरिग्रहसद्भावात् , धर्मोपष्टम्भकत्वाददोष इति5 चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति । एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनयेति दर्शयन्नाह-एतदेवे'त्यादि, एतदेव-अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां-परिग्रहवतां नरकादिगमनहेतुत्वात् सर्वस्याविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्वस्माच्चकति, यदिवैतदेव शरीराहारादिकमपरस्याल्पस्यापि पात्रत्वक्त्राणादेर्द्धर्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं, तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वीभत्स परेषां महाभयं, तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते-'लोग' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं, चशब्दः पुनःशब्दार्थे, णमिति वाक्यालङ्कारे, लोक- ॥२०७॥ वित्तं लोकवृत्तं वा आहारभयमैथुनपरिग्रहोत्कटसंज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरि Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy