SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ अभिविधौ समस्तपापारम्भेभ्यः आत्मा आयत्यते-आनियम्यते यस्मिन् कुशलानुष्ठाने वा यत्नवान् क्रियत इत्यायतनंज्ञानादित्रयम् एकम्-अद्वितीयमायतनमेकायतनं तत्र रतस्तस्य, किं च-'इह' शरीरे जन्मनि वा विविधं परमार्थभावनया शरीरानुबन्धात् प्रमुक्तो विप्रमुक्तस्तस्य 'नास्ति' न विद्यते, कोऽसौ?—'मार्गो' नरकतिर्यमनुष्यगमनपद्धतिः, वर्त्तमानसामीप्ये वर्तमानदर्शनान्न भविष्यतीति नास्तीत्युक्तं, यदिवा तस्मिन्नेव जन्मनि समस्त कर्मक्षयोपपत्तेर्नास्ति नरकादिमार्गः, कस्येति दर्शयति–'विरतस्य' हिंसाद्याश्रवद्वारेभ्यो निवृत्तस्य, इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत् सुधर्मस्वाम्यात्मानमाह, यद्भगवता वीरवर्द्धमानस्वामिना दिव्यज्ञानेनार्थानुपलभ्य वाग्योगेनोक्तं तदहं भवतां ब्रवीमि, न स्वमतिविरचनेनेति । विरत एव मुनिर्भवत्येतत्प्रतिपाद्य साम्प्रतम् 'अविरतवादी परिग्रहवानिति यदुक्तं तत्प्रतिपादयन्नाह आवंती केयावंती लोगंसि परिग्गहावंती, से अप्पं वा बहुं वा अणुं वा थूलं वा चित्तमंतं वा अचित्तमंतं वा एएसु चेव परिग्गहावंती, एतदेव एगेसिं महब्भयं भवइ, लोगवित्तं च णं उवेहाए, एए संगे अवियाणओ । (सू० १४९) यावन्तः केचन लोके 'परिग्रहवन्तः' परिग्रहयुक्ताः स्युस्तत(त्र) एवम्भूतपरिग्रहसद्भावादित्याह-'से अप्पं वा' इत्यादि, ४ तद्र्व्यं यत्परिगृह्यते तदल्पं वा-स्तोकं वा स्यात् कपर्दकादि, बहु वा स्यात् धनधान्यहिरण्यग्रामजनपदादि, अणु वा स्यात् मूल्यतस्तृणकाष्ठादि प्रमाणतो वज्रादि, स्थूलं वा स्यात् मूल्यतः प्रमाणतश्च हस्त्यश्वादि, एतच्च चित्तवद्वा स्याद Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy