________________
श्रीआचारावृत्तिः (शी०)
लोक०५ उद्देशकार
॥२०६॥
पुनरपि सहनीयोऽन्यत्र ते निर्गुणस्य । स्वयमनुभवतोऽसौ दुःखमोक्षाय सद्यो, भवशतगतिहेतुर्जायतेऽनिच्छतस्ते ॥१॥" अपि च एतदौदारिकं शरीरं सुचिरमप्यौषधरसायनाद्युपबृंहितं मृन्मयामघटादपि निःसारतरं सर्वथा सदा विशराविति दर्शयन्नाह-'भिदुरधम्म'मित्यादि, यदिवा पूर्व पश्चादप्येतदौदारिकं शरीरं वक्ष्यमाणधर्मस्वभावमित्याह-'भिदुरधम्म'मित्यादि, स्वयमेव भिद्यत इति भिदुरः स धर्मोऽस्य शरीरस्येति भिदुरधर्म, इदमौदारिकं शरीरं सुपोषितमपि |वेदनोदयाच्छिरोदरचक्षुरुरःप्रभृत्यवयवेषु स्वत एव भिद्यत इति भिदुरं, तथा विध्वंसनधर्म पाणिपादाद्यवयवविध्वंसनात्, तथा अवश्यंभावसम्भावितं त्रियामान्ते सूर्योदयवत् ध्रुवं न तथा यत्तदधुवं, तथा अप्रच्युतानुसन्नस्थिरैकस्वभावतया कूटस्थनित्यत्वेन व्यवस्थितं सन्नित्यं नैवं यत्तदनित्यमिति, तथा तेन तेन रूपेणोदकधारावच्छश्वद्भवतीति शाश्वतं ततोऽन्यदशाश्वतं, तथेष्टाहारोपभोगतया धृत्युपष्टम्भादौदारिकशरीरवर्गणापरमाणूपचयाच्चयः तदभावेन तद्विचटनादपचयः, |चयापचयौ विद्येते यस्य तच्चयापचयिकम् , अत एव विविधः परिणामः-अन्यथाभावात्मको धर्मः-स्वभावो यस्य तद्विपरिणामधर्म । यतश्चैवम्भूतमिदं शरीरकमतोऽस्योपरि कोऽनुबन्धः का मूर्छा ?, नास्य कुशलानुष्ठानमृतेऽन्यथा साफल्यमित्येतदेवाह-'पासह' इत्यादि, पश्यतैनं पूर्वोक्तं रूपसन्धि, भिदुरधर्माद्याघातौदारिक पश्चेन्द्रियनिर्वृत्तिलाभावसरात्मक, दृष्ट्वा च विविधातङ्कजनितान् स्पर्शानध्यासयेदिति ॥ एतत्पश्यतश्च यत्स्यात्तदाह
समुप्पेहमाणस्स इक्काययणरयस्स इह विप्पमुक्कस्स नत्थि मग्गे विरयस्स तिबेमि । (सू० १४८)। सम्यगुत्प्रेक्षमाणस्य-पश्यतोऽनित्यताघ्रातमिदं शरीरमित्येवमवधारयतो नास्ति मार्ग इति सम्बन्धः, किं च-आड्
FACHCRACAARAKAR
॥२०६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org