________________
तान स्पर्शान्-दुःखानुभवान् व्याधिविशेषापादितानध्यासयेत्-सहेत । किमाकलय्येत्याह-'से पुव' मित्यादि, स स्पृष्टः पीडितः आशुकारिभिरातकैरेतद्भावयेद् यथा पूर्वमप्येतद्-असातावेदनीयविपाकजनितं दुःखं मयैव सोढव्यं, पश्चादप्येतन्मयैव सहनीयं, यतः संसारोदरविवरवर्ती न विद्यत एवासौ यस्यासातावेदनीयविपाकापादिता रोगातङ्का न भवेयः, तथाहि-केवलिनोऽपि मोहनीयादिघातिचतुष्टयक्षयादुत्पन्नज्ञानस्य वेदनीयसद्भावेन तदुदयात्तत्सम्भव इति, य-18| तश्च तीर्थकरैरप्येतद्वद्धस्पृष्टनिधत्तनिकांचनावस्थायातं कर्मावश्यं वेद्यं नान्यथा तन्मोक्षः, अतोऽन्येनाप्यसातावेदनीयोदये | सनत्कुमारदृष्टान्तेन मयैवैतत्सोढव्यमित्याकलय्य नोद्विजितव्यमिति, उक्तं च-"स्वकृतपरिणतानां दुर्नयानां विपाकः,
CANCERIAGAR
१-२-३-४ कर्मबन्धश्चतुर्विधः, तद्यथा-प्रकृतिबन्धः १ स्थितिबन्धः २ अनुभागबन्धः ३ प्रदेशबन्धः ४, तत्र प्रकृतिबन्धोऽष्टविधः, ज्ञानावरणीयाद्यन्तरा-11 | यान्तः, एतेऽष्टावपि मूलभेदाः, उत्तरभेदास्तु ज्ञानावरणीये पञ्च, दर्शनावरणीये नव, वेदनीये द्वौ, मोहनीयेऽष्टाविंशतिः, आयुषश्चत्वारः, नाम्नः द्विचत्वारिंशत् सप्त । षष्टिर्चा त्रिनवतिर्वा व्युत्तरशतं वा, गोत्रे द्वौ, अन्तराये पञ्च, इति मूलोत्तरप्रकृतिबन्धः । स्थितिबन्धे ज्ञानावरणीयदर्शनावरणीयवेदनीयान्तरायेषु त्रिंशत्कोटीकोव्य उत्कृष्टा स्थितिः, मोहनीये सप्ततिकोटाकोठ्यः, नामगोत्रयोविंशतिः, आयुषि ३३ सागरोपमाणि पूर्वकोटित्रिभागोनानि, नामगोत्रयोर्जघन्या स्थितिरष्टौ मुहूर्ताः, वेदनीयस्स बारसमुहुत्ता, अंतोमुहुत्ता सेसाणं इति स्थितिबन्धः, शुभाशुभकर्मपुद्गलेषु-"जो रसो अणुभागो वुचइ तत्थ सुभेसु महुरो असुभेसु अमहुरो रसो तस्स बन्धो अणुभागबंधों" अणुभागबन्धो समत्तो। प्रदेशाः-कर्मवर्गणास्कन्धाः तेषां बन्धः जीवप्रदेशः समं वययःपिण्डवत्क्षीरनीरसम्बन्धवदा, उक्तं च-“जीवकर्मप्रदेशानां, यः सम्बन्धः परस्परम् । कृशानुलोहबद्धतोः, तं बन्धं जगदुर्बुधाः ॥१॥" स्पृष्टबद्धनिधत्तनिकाचितकारणभेदात् स पुनश्चतुर्विधः, तथाहिसमूहगतायःसूचिसम्बन्धवत् स्पृष्टकर्मबन्धः, दवरकबद्धसूचिसम्बन्धवद्धकर्मबन्धः, वर्षान्तरितदवरकबद्धसूचिकासम्बन्धवन्निधत्तकर्मबन्धः, अग्निध्भातशचिकासमवायमेलकवनिकाचितकर्मबन्धः.
ACCORNSARA%AY
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org