________________
श्रीआचाराङ्गवृत्तिः (शी०)
लोक. ५ उद्देशकार
॥२०५॥
सहिष्णुतया अनाकुलो विविधैरुपायैः-प्रकारैः संसारासारभावनादिभिः प्रेरयेत्, तत्प्रेरणं च सम्यक्सहनं, न तत्कृतया दुःखासिकयाऽऽत्मानं भावयेदितियावत् ॥ यो हि सम्यक्करणतया परीषहान सहेत स किंगुणः स्यादित्याह
एस समिया परियाए वियाहिए, जे असत्ता पावेहि कम्मेहिं उदाहु ते आयंका फुसंति, इति उदाहु धीरे ते फासे पुट्ठो अहियासइ, से पुट्विपेयं पच्छापेयं भेउरधम्म विद्धंसणधम्ममधुवं अणिइयं असासयं चयावचइयं विप्परिणामधम्म, पासह एयं
रूवसंधि। (सू० १४७) 'एषः' अनन्तरोक्तो यः परीपहाणां प्रणोदकः 'समिया' सम्यक् शमिता वा शमोऽस्यास्तीति शमी तद्भावः शमिता 'पर्यायः' प्रव्रज्या सम्यक् शमितया वा पर्यायः-प्रव्रज्याऽस्येति विगृह्य बहुव्रीहिः स सम्यक्पर्यायः शमितापर्यायो वा व्याख्यातो नापर इति । तदेवं परीषहोपसर्गाक्षोभ्यतां प्रतिपाद्य व्याधिसहिष्णुतां प्रतिपादयन्नाह-'जे असत्ता' इत्यादि, येऽपाकृतमदनतया समतृणमणिलेष्टुकाश्चनाः समतापन्नाः पापेषु कर्मस्वसक्ताः-पापोपादानानुष्ठानारताः 'उदाहु' कदाचित्तान् तथाभूतान् साधून 'आतङ्का' आशुजीवितापहारिणः शूलादयो व्याधिविशेषाः 'स्पृशन्ति' अभिभवन्ति पीडयन्ति । यदि नामैवं ततः किमित्याह-'इति उदाह' इत्यादि, 'इति' एतद्वक्ष्यमाणमुदाहृतवान्-व्याकृतवान्, कोऽसौ ?-'धीरों' धी:-बुद्धिस्तया राजते, स च तीर्थकृद्गणधरो वा, किं तदुदाहृतवान् ?-तैरातकैः स्पृष्टः सन्
ARREARRRRRROR
॥ २०५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org