SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ लोक० ५ उद्देशका३ श्रीआचा- झोषितः-क्षपितः अतो य एव तीर्थकृद्भिर्द्धम्मोऽभिहितः स एव मोक्षमार्गो नापर इत्येतदेवाह-यथाऽत्र मया सन्धि- राङ्गवृत्तिःोषितः एवमन्यत्र-अन्यतीर्थिकप्रणीते मोक्षमार्गे सन्धिः-कर्मसन्ततिरूपः दुर्योध्यो भवति-दुःक्षयो भवति, असमीची-1 (शी०) नतया तदुपायाभावाद्, यदि नाम भगवताऽत्र कर्मसन्धिझोषितस्ततः किमित्याह-यस्मादस्मिन्नेव मार्गे व्यवस्थितेन । मयाऽपि विकृष्टतरेण तपसा कर्म क्षपितं ततोऽन्योऽपि मुमुक्षुः संयमानुष्ठाने तपसि च वीर्य 'नो निहन्यात्' नो निगृह॥२०९॥ येद् अनिगूहितबलवीर्यो भूयाद्, एतदहं ब्रवीमि परमकारुण्याकृष्टहृदयः परहितैकोपदेशदायीत्येतद्वीरवर्द्धमानस्वाम्याह, |सुधर्मस्वामी स्वशिष्याणां कथयति स्म ॥ कश्चैवम्भूतः स्यादित्याह जे पुबुट्ठाई नो पच्छानिवाई, जे पुबुढाई पच्छानिवाई, जे नो पुव्वुट्टायी नो पच्छानिवाई, सेऽवि तारिसिए सिया, जे परिन्नाय लोगमन्नेसयंति । (सू० १५२) . यः कश्चिद्विदितसंसारस्वभावतया धर्मचरणैकप्रवणमनाः पूर्व-प्रव्रज्याऽवसरे संयमानुष्ठानेनोत्थातुं शीलमस्येति पूर्वोत्थायी पश्चाच्च श्रद्धासंवेगतया विशेषेण वर्द्धमानपरिणामो नो निपाती, निपतितुं शीलमस्येति विगृह्य णिनिः निपतनं वा निपातः सोऽस्यास्तीति निपाती, सिंहतया निष्क्रान्तः सिंहतया विहारी च गणधरादिवत् प्रथमो भङ्गः । द्वितीयभङ्गं सूत्रेणैव दर्शयन्नाह-पूर्वमुत्थातुं शीलमस्येति पूर्वोत्थायी, पुनर्विचित्रत्वात् कर्मपरिणतेस्तथाविधभवितव्यतानियोगात्पश्चान्निपाती स्यात्, नन्दिषणवत्, कश्चिद्दर्शनतोऽपि गोष्ठामाहिलवदिति । तृतीयभङ्गस्य चाभावादनुपादानं, +4%94%ACANAGAR ॥२०९॥ Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy