SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ श्रीआचारावृत्तिः (शी०) समस्तस्यापि लोकस्य तावद्धर्मः सारो, धर्ममपि ज्ञानसारं ब्रुवते, ज्ञानमपि संयमसारं, संयमस्यापि सारभूतं निर्वाण- लोक०५ मिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारयितव्यं, तच्चेदम् उद्देशकः१ __ आवंती केयावंती लोयंसि विप्परामुसंति अट्टाए अणट्टाए, एएसु चेव विप्परामुसंति, गुरु से । कामा, तओ से मारते, जओ से मारते तओ से दूरे, नेव से अंतो नेव दूरे (सू० १४१) 'आवन्ती'त्ति यावन्तो जीवा मनुष्या असंयता वा स्युः, 'केआवंति'त्ति केचन 'लोके' चतुर्दशरज्वात्मके गृहस्थान्यतीर्थिकलोके वा षड्जीवनिकायान् आरम्भप्रवृत्ता विविधम्-अनेकप्रकारं विषयाभिलाषितया 'परामृशन्ति' उपतापयन्ति, दण्डकशताडनादिभिर्घातयन्तीत्यर्थः, किमर्थ विपरामृशन्तीति दर्शयति–'अर्थाय' अर्थार्थ अर्थाद्वा अर्थः-प्रयोजनं धर्मार्थकामरूपं, कर्मणि ल्यब्लोपे पञ्चमी, अर्थमुद्दिश्य-प्रयोजनमुत्प्रेक्ष्य प्राणिनो घातयन्ति, तथाहि-धर्मनि-18 मित्तं शौचार्थ पृथिवीकार्य समारभन्ते, अर्थार्थ कृष्यादि करोति, कामार्थमाभरणादि, एवं शेषेष्वपि कायेषु यथायोगं वाच्यं, अनर्थाद्वा-प्रयोजनमनुद्दिश्यैव तच्छीलतयैव मृगयाद्याः प्राण्युपधातकारिणीः क्रियाः कुर्वन्ति, तदेवमादनाद्वा प्राणिनो हत्वा एतेष्वेव-षड्जीवनिकायस्थानेषु विविधम्-अनेकप्रकारं सूक्ष्मबादरपर्याप्तकापर्याप्तकादिभेदेन तानेकेन्द्रि-| दायीन प्राणिनस्तदुपघातकारिणः परामृशन्ति, तान् प्रपीड्य तेष्वेवानेकश- उत्पद्यन्त इतियावत्, यदिवा तत्षड्जीवनि-|| कायबाधाऽवाप्तं कर्म तेष्वेव कायेषूत्पद्य ते तैस्तैः प्रकारैरुदीर्ण विपरामृशन्ति-अनुभवन्तीति, नागार्जुनीयास्तु पठन्ति । ॥१९८॥ |-"जावंति केइ लोए छक्कायवहं समारभंति अहाए अणहाए वा” इत्यादि, गतार्थ, स्याद्-असौ किमर्थमेवंविधानि क-14 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy