________________
कापदं विहाय सारपदं-इदं ज्ञानादिकं प्रागुपन्यस्तं दृढेन-अनन्यमनस्केन तीर्थिकदम्भप्रतारणाक्षोभ्येन ग्राह्य, तदेव शङ्कापदव्युदासकार्य गाथाशकलेन दर्शयति-अस्ति जीवः, अस्य च पदार्थानामादावुपन्यासाजीवपदार्थस्य च प्राधान्यादुपलक्षणार्थवादा शेषपदार्थग्रहणं, अस्ति-विद्यते जी वेतवान् जीवति जीविष्यतीति वा जीवः शुभाशुभफलभोक्तेति, स च प्रत्यक्ष एवाहंप्रत्ययसाध्यः, इच्छाद्वेषप्रयत्नादिकार्यानुमानसाध्यो वा, तथा अजीवा अपि धर्माधर्माकाशपुद्गला गतिस्थित्यवगाहन्यणुकादिस्कन्धहेतवः सन्ति,एवमानवसंवरबन्धनिर्जरा अपि विद्यन्ते, प्रधानपुरुषार्थत्वाद् आद्यन्तग्रहणे मध्यग्रहणस्यावश्यंभावित्वादाचं जीवपदार्थ साक्षादुपन्यस्यान्त्यं मोक्षपदार्थमुपन्यस्यति-परमं च तसदं च परमपदं, तचास्तीति सम्बन्ध इति, अस्ति मोक्षः शुद्धपदवाच्यत्वाद् बन्धस्य संप्रतिपक्षत्वान्मोक्षाविनाभावित्वाद्वा बन्धस्येति, सत्यपि मोक्षे यदि तदवाप्तावुपायो न स्यात्ततो जनाः किं कुर्युरित्यतस्तत्कारणास्तित्वं दर्शयति-'यतना'यत्नो रागद्वेपेषु, रागद्वेषोपशमाघः संयमोऽसावप्यस्तीति । तदेवं सति जीवे परमपदे च शङ्कापदव्युदासेन ज्ञानादिकं सारपदं दृढेन ग्राह्यमिति गाथार्थः॥ ततोऽप्यपरापरसारप्रकर्षगतिरस्तीति दर्शयन्नुपक्षेपमाहलोगस्स उ को सारो? तस्स य सारस्स को हवइ सारो? तस्स यसारो सारं जइ जाणसि पुच्छिओ साह२४४ ___ 'लोकस्य चतुर्दशरज्वात्मकस्य का सारः, तस्यापि सारस्य कोऽपरः सारः, तस्वापि सारसारस्य सारं यदि जानासि ततः पृष्टो मया कथयेति गाथार्थः ॥ प्रश्नपतिवचनार्थमाह
लोगस्स सार धम्मो धम्मपि य नाणसारियं चिंति । नाणं संजमसारं संजमसारं च निव्वाणं ॥ २४५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org