________________
लोक.५ | उद्देशकार
श्रीआचा- उत्तमसुखं तेन वरिष्ठा-वरतमा, तत्साधनानि च गाथाशकलेन दर्शयति–साधनकानि' प्रकृष्टोपकारकाणि ज्ञानदर्शनसंराङ्गवृत्तिः यमतपसि, तस्मिंश्च भावसारे सिद्धाख्यफलसाधने ज्ञानादिके प्रकृतं ज्ञानदर्शनचारित्रेण भावसाररूपेणात्राधिकार इति (शी०) गाथार्थः । तस्यैव ज्ञानादेः सिच्युपायस्य भावसारतां प्रतिपादयन्नाह॥१९७॥
लोगंमि कुसमएसु य कामपरिग्गहकुमग्गलग्गेसुं । सारो हु नाणदंसणतवचरणगुणा हियट्ठाए ॥२४२॥ | 'लोके' गृहस्थलोके कुत्सिताः समयाः कुसमयाः तेषु च, किम्भूतेषु ?-कामपरिग्रहेग ये कुत्सिता मार्गास्तेषु लग्नेषु, हुर्हेतौ, यस्माल्लोकः कामपरिग्रहाग्रही गृहस्थभावमेव प्रशंसति, वक्ति च-'गृहाश्रमसमो धर्मो, न भूतो न भविष्यति । पालयन्ति नराः शूराः, क्लीबाः पाषण्डमाश्रिताः॥१॥' गृहाश्रमाधाराश्च सर्वेऽपि पाषण्डिनः इत्येवं महामोहमोहितइच्छामदनकामेषु प्रवर्त्तते, तथा तीथिका अप्यनिरुद्धन्द्रियप्रसरा द्विरूपकामाभिष्वङ्गिणः इत्यतस्तेषु सारो ज्ञानदर्शनतपश्चरणगुणाः, उत्तमसुखवरिष्ठसिद्धिहेतुत्वात्, हिता-सिद्धिस्तदर्थत्वादिति गाथार्थः ॥ यतो ज्ञानदर्शनतपश्चरणगुणा हितार्थतया सारस्तस्मात्किं कर्त्तव्यमित्याह- चइऊणं संकपयं सारपयमिणं दढेण चित्तव्वं । अत्थि जिओ परमपयं जयणा जा रागदोसेहिं ॥२४३ ॥ _ 'त्यक्त्वा' प्रोज्झ्य, किं तत्?-'शङ्कापदं' किमेतन्मदारब्धमनुष्ठानं निष्फलं स्यादित्येवंम्भूतो विकल्पः शङ्का तस्याः कापदं-निमित्तकारणं तच्चाहरोक्तेष्वत्यन्तसूक्ष्मेष्वतीन्द्रियेषु केवलागमग्राह्येष्वर्थेषु या संशीतिः-सन्देह इत्येतद्रूपं तच्छ
॥१९
॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org