SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ अथ लोकसाराख्यं पञ्चममध्ययनम् । उक्तं चतुर्थमध्ययनं साम्प्रतं पञ्च ममारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तराध्ययने सम्यक्त्वं प्रतिपादितं तदन्तर्गतं च ज्ञानं, तदुभयस्य च चारित्रफलत्वात् तस्यैव च प्रधानमोक्षाङ्गतया लोकसारत्वात् तत्प्रतिपादनार्थमिदमुपक्रम्यत इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भवन्ति, तत्रोपक्रमेऽर्थाधिकारो द्वेधा, तत्राप्यध्ययनार्थाधिकारोऽभिहितः, उद्देशार्थाधिकारं तु नियुक्तिकारः प्रतिपिपादयिषुराह हिंसगविसयारंभग एगचरुत्ति न मुणी पढमगंमि । विरओ मुणिन्ति बिइए अविरयवाई परिग्गहिओ ||२३६|| तइए एसो अपरिग्गहो य निव्विन्नकामभोगो य । अच्वत्तस्सेगचरस्स पच्चवाया चउत्थंमि ॥ २३७ ॥ हरओवमो य तवसंयमगुत्ती निस्संगया य पंचमए । उम्मग्गवज्जणा छट्ठगंमि तह रागदोसे य ॥ २३८ ॥ हिनस्तीति हिंसकः आरम्भणमारम्भो विषयाणामारम्भोऽस्येति विषयारम्भकः, व्यधिकरणस्यापि गमकत्वात्समासः, ण्वुलन्तस्य वा याजकादिदर्शनात् समासो, विषयाणामारम्भको विषयारम्भक इति, हिंसकश्च विषयारम्भकश्चेति विगृह्य समाहारद्वन्द्वः, प्राकृतत्वात्पुंलिङ्गता, अयमर्थी - हिंसकः प्राणिनां विषयारम्भकश्च विषयार्थं सावद्यारम्भप्रवृत्तश्च न मुनिः, तथा विषयार्थमेव एक एव चरत्येकचरः स च न मुनिरिति, एतदधिकारत्रयं प्रथमोद्देशके १, द्वितीये तु हिंसादिपापस्थानकेभ्यो विरतो मुनिर्भवतीत्ययमर्थाधिकारः, वदनशीलो वादी अविरतस्य वादी अविरतवादी परिग्रहवान् भवतीत्येत Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600216
Book TitleAcharangsutram Part 01
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages640
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy