________________
लोक०५
श्रीआचाराङ्गवृत्तिः (शी०)
उद्देशका
॥१९६॥
च त्याच्यावित्यथा तपःसंयमगुसयो नितभत्तोऽयतिनवः प्रशस्यत्यपाया भवन्तीत्यमयनिर्विष्णकामभोगश्चेत्ययमा
चात्रोद्देशके प्रतिपादयिष्यत इति २, तृतीये त्वेष एव विरतो मुनिरपरिग्रहो भवतीति निर्विणकामभोगश्चेत्ययमर्थाधिकारः ३, चतुर्थे त्वव्यक्तस्य-अगीतार्थस्य सूत्रापरिनिष्ठितस्य प्रत्यपाया भवन्तीत्ययमर्थाधिकारः ५, पश्चमके तु ह्रदोपमेन साधुना भाव्यं, यथा हि ह्रदो जलभृतोऽप्रतिस्रवः प्रशस्यो भवति, एवं साधुरपि ज्ञानदर्शनचारित्रभृतो विस्रोतसिकारहित इति, तथा तपःसंयमगुप्तयो निःसङ्गता चेत्ययमर्थाधिकारः ५, षष्ठे तून्मार्गवर्जना-कुदृष्टिपरित्यागः, तथा राग
द्वेषौ च त्याज्यावित्ययमर्थाधिकारः ६, इति गाथात्रयार्थः ॥ नामनिष्पन्ने तु निक्षेपेऽत्र द्विधा नाम-आदानपदेन गौणं |चेति, एतत् द्विविधमपि नियुक्तिकारः प्रतिपादयितुमाह
आयाणपएणावंति गोण्णनामेण लोगसारुत्ति । लोगस्स य सारस्स य चउक्कओ होह निक्खेवो ॥ २३९ ॥
आदीयते-प्रथममेव गृह्यत इत्यादानं तच्च तत्पदं च आदानपदं तेन करणभूतेनावन्तीत्येतनाम, अध्ययनादावावन्तीशब्दस्योच्चारणाद् , गुणैर्निष्पन्नं गौणं तच्च तन्नाम च गौणनाम तेन हेतुना लोकसार इति, लोकस्य-चतुर्दशरज्ज्वा|त्मकस्य सारः-परमार्थो लोकसारः द्विपदं नामेत्यतः लोकस्य सारस्य च प्रत्येकं चतुष्कको निक्षेपो भवति, तद्यथा-नामलोको यस्य कस्यचिल्लोक इति नाम क्रियते, स्थापनालोकश्चतुर्दशरज्ज्वात्मकस्य लोकस्य स्थापना गाथात्रयादवसेया, तच्चैतत्-तिरिअं चउरो दोसुं छद्दोसु अठ्ठ दस य एकेके । बारस दोसुं सोलस दोसुं वीसा य चउसुं तु ॥१॥ पुणरवि सोलस दोसुं बारस दोसुं तु हुंति नायव्वा । तिसु दस तिसु अठच्छ य दोसु दोसुं तु चत्तारि ॥२॥ ओयरिअ लोअमज्झा चउरो चउरो य सव्वहिं णेया । तिअ तिअ दुग दुग एक्केक्कगं च जा सत्तमीए उ ॥ ३ ॥ द्रव्यलोको जीवपुद्ग
॥१९६॥
dain Education International
For Personal & Private Use Only
anww.jainelibrary.org