________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ १९५ ॥
ङ्कारे, ये केचनातीतानागतवर्त्तमानाः 'भो' इत्यामन्त्रणे 'वीराः ' कर्म्मविदारण सहिष्णवः समिताः समितिभिः सहिता | ज्ञानादिभिः सदा यताः सत्संयमेन 'संघडदंसिणो' त्ति निरन्तरदर्शिनः शुभाशुभस्य आत्मोपरताः पापकर्म्मभ्यो यथा तथा अवस्थितं 'लोकं' चतुर्दशरज्ज्वात्मकं कर्म्मलोकं वोपेक्षमाणाः - पश्यन्तः सर्वासु प्राच्यादिषु दिक्षु व्यवस्थिता इत्येवंप्रकाराः 'सत्य' मिति ऋतं तपः संयमो वा तत्र परिचिते-स्थिरे तस्थुः - स्थितवन्तः, उपलक्षणार्थत्वात् त्रिकालविषयता द्रष्टव्या, तत्रातीते काले अनन्ता अपि सत्ये तस्थुः वर्त्तमाने पञ्चदशसु कर्म्मभूमिषु सङ्ख्येयास्तिष्ठन्ति अनागते अनन्ता अपि स्थास्यन्ति तेषां चातीतानागतवर्त्तमानानां सत्यवतां यज्ज्ञानं योऽभिप्रायस्तदहं कथयिष्यामि भवतां शृणुत यूयं, किम्भूतानां तेषां ? - ' वीराणा' मित्यादीनि विशेषणानि गतार्थानि किम्भूतं ज्ञानमिति चेदाह - किं प्रश्ने 'अस्ति' विद्यते ?, कोऽसौ ? – ' उपाधिः' कर्म्मजनितं विशेषणं, तद्यथा - नारकस्तिर्यग्योनः सुखी दुःखी सुभगो दुर्भगः पर्याप्त कोऽपर्याप्तक इत्यादि, आहोस्विन्न विद्यत इति परमतमाशङ्क्य त ऊचुः - 'पश्यकस्य' सम्यग्वादादिकमर्थं पूर्वोपात्तं पश्यतीति पश्यः स एव पश्यकस्तस्य कर्म्मजनितोपाधिर्न विद्यते, इत्येतदनुसारेणाहमपि ब्रवीमि न स्वमनीषिकयेति । गतः सूत्रानुगमः, तद्गतौ च समाप्तश्चतुर्थोद्देश को, नयविचारातिदेशात् समाप्तं सम्यक्त्वाध्ययनं चतुर्थमिति ॥ ग्रं० ६२० ॥
Jain Education International
For Personal & Private Use Only
सम्य० ४
उद्देशका ३
॥ १९५ ॥
www.jainelibrary.org