________________
वरणीयस्य ज्ञानावृतिः दर्शनावरणस्य दर्शनाच्छादनं वेदनीयस्य विपाकोदयजनिता वेदनेत्यादि, ननु च न सर्वेषां कर्मणां विपाकोदयमिच्छन्ति, प्रदेशानुभवस्यापि सद्भावात् तपसा च क्षयोपपत्तेरित्यतः कथं कर्मणां सफलत्वं?, नैष दोषो, नात्र प्रकारकाय॑मभिप्रेतम् , अपितु द्रव्यकारूय, तच्चास्त्येव, तथाहि-यद्यपि प्रतिबन्धव्यक्ति न विपाकोदयस्तथाप्यष्टानामपि कर्मणां सामान्येन सोऽस्त्येवेत्यतः कर्मणां सफलत्वमुपलभ्यते, तस्मात्-कर्मणस्तदुपादानादास्रवाद्वा निश्चयेन याति निर्याति-निर्गच्छति, तन्न विधत्त इतियावत् , कोऽसौ?—'वेदविद्' वेद्यते सकलं चराचरमनेनेति वेदःआगमस्तं वेत्तीति वेदवित् , सर्वज्ञोपदेशवतीत्यर्थः ॥ न केवलस्य ममैवायमभिप्रायः, सर्वेषामेव तीर्थकराणामयमाशय इति दर्शयितुमाह
जे खलु भो! वीरा ते समिया सहिया सयाजया संघडदंसिणो आओवरया अहातहं लोयं उवेहमाणा पाईणं पडिणं दाहिणं उईणं इय सञ्चंसि परि (चिए) चिटिंसु, साहिस्सामो नाणं वीराणं समियाणं सहियाणं सयाजयाणं संघडदंसीणं आओवरयाणं अहातहं लोयं समुवेहमाणाणं किमथि उवाही?, पासगस्स न विजइ नस्थित्तिबेमि
(सू०१४०)॥ चतुर्थे चतुर्थः ४-४ । इति सम्यक्त्वाध्ययनम् ॥ ४॥ यदिवा उक्तः सम्यग्वादो निरवद्यं तपश्चारित्रं च, अधुना तत्फलमुच्यते-'जे खलु' इत्यादि, खलुशब्दो वाक्याल
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org